________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
422
मूलपट्टाभिसेओ, कओ तहिं मयणसुंदरीएवि । सेसाणं अट्ठण्हं, कओ अ लहुपट्टअभिसेओ ॥ १०६५ ॥ मइसायरो अ इक्को, तिन्नेव य धवलसिविणो मित्ता । एए चउरोऽवि तया, रन्ना निअमंतिणो ठविआ ॥१०६६॥ कोसंबीनयरीओ, अणाविओ धवलनंदणो विमलो । सो कणयपट्टपुर, सिट्ठी संठाविओ रन्ना ॥१०६७ ॥ अट्ठाहियाउ चेईहरेसु काराविऊण विहिपुवं । सिरिसिद्धचक्कपूअं, च कारए परमभत्तीए ॥१०६८॥ ठाणे ठाणे चेईहराई कारेइ तुंगसिहराई । घोसावेइ अमारिं, दाणं दीणाण दावेइ ॥ १०६९ ॥
तत्र मदनसुन्दा अपि मूलपट्टाभिषेकः, सा मूलपट्टराज्ञीपदे स्थापितेत्यर्थः, च - पुनः शेषाणामष्टानां राजीनां लघुपट्टाभिषेकः कृतः॥१०६५॥ तदा एकश्च मतिसागरःत्रीण्येव च धवलश्रेष्ठिनो मित्राणि एते चत्वारोऽपि राज्ञाश्रीपालेन निजमन्त्रिणः स्थापिताः ॥ १०६६ ॥ तथा कोशाम्बीनगरीतो विमलो नाम धवलनन्दनो-धवलश्रेष्ठिपुत्र आनायितः, स विमलो राज्ञा श्रीपालेन कनकपट्टपूर्व-सौवर्णपट्टबन्धकपूर्वकं श्रेष्ठी सं-सम्यक् प्रकारेण स्थापितः ॥ १०६७ ॥ तथा श्रीपालश्चैत्यगृहेषु-जिनमन्दिरेषु अष्टाहिकामहोत्सवान् कारयित्वा विधिपूर्वं परमभक्त्या श्रीसिद्धचक्रपूजां च कारयति ॥ १०६८ ॥ स्थाने स्थाने तुगानि-उच्चानि शिखराणि येषां तानि तुङ्गशिखराणि चैत्यगृहाणि कारयति, तथाऽमारिंसर्वजन्तुभ्योऽभयदानं घोषयति, पुनः दीनेभ्यो दानं दापयति, इत्थं पुण्यकृत्यानि करोतीत्यर्थः ॥ १०६९ ॥
२४०
For Private and Personal Use Only