________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ANDA
मोहो महल्लमल्लोऽवि पीडिओ ताडिऊण जेणेसो । वेरग्गमुग्गरेणं, तस्स महामुणिवइ ! नमो ते ॥१०५९॥ एए अंतररिउणो, दुज्जेआ सयलसुरवरिदेहिं । जेण जिआ लीलाए, तस्स महामुणिवइ ! नमो ते ॥१०६०॥ पुवंपि तुमं पुज्जो, आसि ममं जेण तायभायाऽसि । संपइ पुणो मुणीसरु, जाओ पुज्जो तिलुक्कस्स ॥१०६१॥ एवं थोऊण नमंसिऊण तं अजिअसेणमुणिनाहं । सिरिपालनिवो ठावइ, तप्पुत्तं तस्स ठाणमि ॥१०६२॥ कयसोहाए चंपा-पुरीइ समहुस्सवं सुमुहुत्ते । पविसइ सिरिसिरिपालो, अमरपुरीए सुरिंदुब ॥ १०६३ ॥ तत्थ य सयलेहिं नरेसरेहिं मिलिऊण हरिसिअमणेहिं । पिअपट्टमि निवेसिअ, पुणोऽभिसेओ कओ तस्स ॥१०६४॥
येन मुनिना एष मोहो महान्मल्लोऽपि वैराग्यमुद्गरेण ताडयित्वा पीडितस्तस्मै ते० नमः॥१०५९॥सकलसुरवरेन्द्रैः दुर्जेया एते क्रोधादय आन्तररिपव-आत्मस्था वैरिणो येन मुनिना लीलया जितास्तस्मै ते-तुभ्यं मुनिपतये नमः ॥१०६० ॥ पूर्वमपि त्वं मम पूज्य आसीः येन कारणेन त्वं तातस्य-मत्पितु तासि, सम्प्रति-इदानीं पुनः मुनीश्वरः सन् त्रैलोक्यस्य पूज्यो जातोऽसि ॥१०६१ ॥ एवं तमजितसेनमुनिनाथं स्तुत्वा नमस्कृत्य च श्रीपालनृपस्तस्य-अजितसेनस्य पुत्रं तस्य स्थाने स्थापयति ॥१०६२॥ कृता शोभा यस्याः सा कृतशोभा तस्यां चम्पापुर्यां श्रीश्रीपालो नृपः सुमुहूर्ते-शोभने मुहूर्ते समहोत्सवंमहोत्सवसहितं प्रविशति-प्रवेशं करोति, कस्यां क इव ?-अमरपुर्या-देवनगर्यां सुरेन्द्र इव ॥१०६३ ॥ तत्र-तस्यां च नगर्यां हर्षितं मनो येषां ते हर्षितमनसस्तैः सकलैः-सर्वेनरेश्वरैः-राजभिर्मिलित्वा पितुः पट्टे निवेश्य-स्थापयित्वा तस्य-श्रीपालस्य पुनरभिषेको-राज्याभिषेकः कृतः ॥१०६४ ॥
For Private and Personal Use Only