________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जेणिच्छामुच्छावेलसंकुलो लोहसागरो गरुओ। तरिओ मुत्तितरीए, तस्स महामुणिवइ ! नमो ते ॥१०५५॥ जेण कंदप्पसप्पो, विवेअसंवेअजणिअजंतेण । गयदप्पुच्चिअविहिओ, तस्स महामुणिवइ ! नमो ते ॥१०५६॥ जेण निअमणपडाओ, कोसुंभपयंगमंगसमरागो। तिविहोऽवि हु निधूओ, तस्स महामुणिवइ ! नमो ते ॥१०५७॥ दोसो दुटुगयंदो, वसीकओ जेण लीलमित्तेणं । उवसमसिणिनिउणेणं, तस्स महामुणिवइ ! नमो ते ॥१०५८॥
येन मुनिना गुरुको-महान् लोभसागरो-लोभसमुद्रो मुक्तिः-निर्लोभता एव तरीः-नौस्तया तीर्णस्तस्मै ते नमः, कीदृशो लोभसागरः ?-'इच्छामू वेलासकुलः' इच्छा-सामान्यतो वाञ्छा, मूर्छा-विशेषतस्तृष्णा, इच्छायुक्ता मूर्छा इच्छामूर्छा, सा एव वेला-जलवृद्धिस्तया सकुलो-व्याकुलः॥१०५५ ॥ येन मुनिना विवेकसंवेगाभ्यां जनितम्-उत्पादितं यत् यन्त्रं तेन कन्दर्प एव सर्पो गतदर्प एव विहितः कृतः तस्मै ते० नमः, गतो दो मानो यस्य स तथा ॥१०५६॥येन मुनिना निजमनःपटात्-स्वकीयचित्तरूपवस्त्रात् कुसुम्भपतङ्गमङ्गैः समः-तुल्यः कामस्नेहदृष्टिरागाख्यस्त्रिविधोऽपि रागो निधूतो - दूरीकृतस्तस्मै ते० नमः, तत्र कुसुम्भरागसमः कामरागः, पतङ्गरागसमः स्नेहरागः मङ्गरागसमो दृष्टिरागः, मङ्गो रजनद्रव्यविशेषस्तद्रागो दुस्त्यजो भवति ॥ १०५७ ॥ पुनर्येन मुनिना लीलामात्रेण-लीलया एव द्वेषो दुष्टगजेन्द्रो वशीकृतस्तस्मै ते० नमः, कीदृशेन येन ?-उपशम एव सृणिः-अकुशस्तत्र निपुणेन, तत्प्रयोगज्ञेनेत्यर्थः ॥ १०५८ ॥
For Private and Personal Use Only