________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*************
तं च पवन्नचरितं, दळु सिरिपालनरवरो झत्ति । पणमेइ सपरिवारो, भत्तीइ थुणेइ एवं च ॥१०५१ ॥ जेणेस कोहजोहो, हणिओ हेलाइ खंतिखग्गेणं । समयासिअधारेणं, तस्स महामुणिवइ ! नमो ते ॥१०५२॥ माणगिरिगरुअमयसिहरअट्ठयं मद्दविवज्जेणं । जेण हणिऊण भग्गं, तस्स महामुणिवइ ! नमो ते ॥१०५३॥ मायामयविसवल्ली, जेणऽज्जवसारसरलकीलेणं । उक्खणिआ मूलाओ, तस्स महामुणिवइ ! नमो ते ॥१०५४॥
प्रपन्न-अङ्गीकृतं चारित्रं येन स तं प्रपन्नचारित्रं तं च अजितसेनं दृष्ट्वा श्रीपालनरवरः-श्रीपालनृपो झटिति-शीघ्रं सपरिवारः-परिवारसहितः प्रणमति-नमस्करोति, च - पुनर्भक्त्या एवं-वक्ष्यमाणप्रकारेण स्तौति, तथाहि-॥१०५१॥ येन एष क्रोधयोधः-क्रोध एव भटः क्षान्तिखड्गेन-क्षमारूपकरवालेन हेलया-अवज्ञया लीलया वा हतस्तस्मै ते-तुभ्यं महामुनिपतये नम इत्यन्वयः, कीदृशेन क्षान्तिखड्गेन ?-समता एव शिता-तीक्ष्णा धारा यस्य स तेन तथा ॥१०५२॥ पुनर्येन मुनिना मानः-अभिमान एव गिरिः-पर्वतस्तत्र गुरुकाणि-महान्ति लाभैश्वर्यादिका मदा एव शिखराणि तेषामष्टकं मार्दवं-मृदुता एव एकम्-अद्वितीयं वजं तेन हत्वा भग्न-वोटितं तस्मै ते-तुभ्यं महामुनिपतये नमः॥१०५३॥माया स्वरूपमस्या इति मायामयी या विषवल्ली सा येन मुनिना आर्जवं-सरलता एव सारः-श्रेष्ठः सरलः-अवकः कीलः-शकुस्तेन मूलात् उत्खाता-निष्कासिता तस्मै ते-तुभ्यं महामुनिपतये नमः ॥ १०५४ ॥
*****
२३७
For Private and Personal Use Only