________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
ho
हा
२३६
**
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
*
*
गुत्तदोहेण कित्ती, नासइ नीई अ रायदोहेण । बालदोहेण सुगई, हहा मए तं तिगंपि कयं ॥ १०४७ ॥ कत्थस्थि मज्झ ठाणं, नरयं मुत्तूण पावचरिअस्स ? । ता पावघायणत्थं पव्वज्जं संपवज्जामि ॥ १०४८ ॥ "एवं च तस्स चिंतंतयस्स सुहभावभाविअमणस्स । पावरासीहिं भिन्नं, दिन्नं विवरं च कम्मेहिं ॥ १०४९॥ तो सरिपुव्वजम्मेण तेण सिरिअजिअसेण भूवइणा । पडिवन्नं चारित्तं, सुदेवयादत्तवेसेणं ॥ १०५० ॥
पुनः चिन्तयति, गोत्रद्रोहेण कीर्त्तिर्नश्यति, राजद्रोहेण च नीतिः -न्यायमार्गो नश्यति, तथा बालद्रोहेण सुगतिःदेवगत्यादिका नश्यति, हा इति खेदे, मया एतत्त्रिकमपि कृतम् ॥ १०४७ ॥ पापचरितस्य- ईदृक्पापाचारस्य मम नरकं मुक्त्वा नरकं विना कुत्र स्थानमस्ति ?, तत्-तस्मात्कारणात् पापस्य घातनार्थं विनाशनार्थं प्रव्रज्यां-जैनीं दीक्षां सम्प्रपद्ये - अङ्गीकुर्वे ॥ १०४८ ॥ एवम् अनन्तरोक्तप्रकारेण चिन्तयतोऽत एव शुभभावेन-शुभपरिणामेन भावितं-वासितं मनो यस्य स तस्य, तथाभूतस्य तस्य राज्ञः पापराशिभिः पापसमूहैर्भिन्नं विदीर्णं च पुनः कर्मभिर्विवरं दत्तम् ॥ १०४९ ॥ ततःतदनन्तरं स्मृतं पूर्वजन्म-पूर्वभवो येन स स्मृतपूर्वजन्मा, तेन तथाभूतेन श्रीअजितसेनभूपतिना - अजितसेनराजेन चारित्रंसर्वविरत्याख्यं प्रतिपन्नं-अङ्गीकृतम्, कीदृशेन तेन ? - सुदेवतया सम्यग्दृष्टिदेवतया दत्तो वेषो - रजोहरणादिको यस्मै स तेन तथा ॥ १०५० ॥
For Private and Personal Use Only