________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सिरिपालरायपासे, आसीओ जाव सो तहा बद्धो । ताव तेणं च रन्ना, सोवि हु मोआविओ झत्ति ॥१०४३॥ भणिओ अ ताय ! मा किंपि निअमणे संकिलेसलेसंपि । चिंतेसु किंतु पुव्वंव निअभुवं भुंजसु सुहेणं ॥१०४४॥ तो अजिअसेणराया, चित्ते चिंतेइ ही मए किमि। अविमंसिअंकयं जं, दूअस्स न मन्नि वयणं ?॥१०४५॥ कत्थाहं वुडोवि हु, परदोहपरायणो महापावो । कत्थ इमो बालोऽवि हु, परोवयारिक्कधम्मपरो॥१०४६ ॥
स राजा तथा-तेन प्रकारेण बद्धः सन् यावत् श्रीपालराजपावें आनीतस्तावत् च तेन-श्रीपालेन राज्ञा सोऽपिअजितसेनोऽपि झटिति-शीघ्रं मोचितः ॥ १०४३ ॥ भणितश्च, किमित्याह- हे तात ! निजमनसि-स्वचित्ते किमपि सङ्क्लेशलेशमपि मा चिन्तय, किन्तु पूर्वमिव-पूर्ववत् निजभुवं-स्वकीयभूमिं सुखेन भुझ्व ॥ १०४४॥ ततःश्रीपालवचनश्रवणानन्तरमजितसेनो राजा चित्ते चिन्तयति, ही इति खेदे, मया किमिदमविमृष्टं कृतम्-अविचार्य कार्यं कृतम्, यद् दूतस्य वचनं न मानितम्-नागीकृतम् ॥१०४५॥ अहं हु इति निश्चितं वृद्धोऽपि परस्य द्रोहे-जिघांसायां परायणःतत्परो महापापः कुत्र ? अयं पुनर्बालोऽपि परोपकार एव य एकः-अद्वितीयो धर्मः स एव परः-प्रधानो यस्य सः परोपकारैकधर्मपरः कुत्र ? द्वौ कुत्रशब्दौ महदन्तरं सूचयतः ॥१०४६ ॥
For Private and Personal Use Only