________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सिरिपालबलभडेहिं, भग्गं दठूण निअबलं सयलं । उट्ठवइ अजिअसेणो, निअनामाओ व लज्जंतो ॥१०३९॥ जा सो परबलसुहडे, कुविअकयंतुब संहरइ ताव । सत्तसयराणएहिं, समंतओ वेढिओ झत्ति ॥ १०४० ॥ पच्चारिओ अ तेहिं, नरवर! अज्जवि चएसु अभिमाणं । सिरिपालरायपाए, पणमसु मा मरसु मुहिआए ॥१०४१॥ तहवि हु जाव न थक्कइ, जुझंतो ताव तेहिं सुहडेहिं । सो पाडिऊण बद्धो, जीवंतो चेव लीलाए ॥१०४२॥
श्रीपालस्य राज्ञो यद् बलं-कटकंतत्र ये भटास्तैर्भग्नं सकलं-समस्तं निजबलं-स्वसैन्यं दृष्ट्वाऽजितसेनो राजा निजनामतो लज्जमान इव उत्तिष्ठते-युद्धार्थमुद्यतो भवति, न केनापि जिता सेना यस्येति व्युत्पत्तेरन्यथाभवनादिति भावः॥१०३९ ॥ सोऽजितसेनो राजा कुपितः कृतान्तो-यमराज इव यावत् परबलस्य-शत्रुसैन्यस्य सुभटान् संहरति-विनाशयति तावत् सप्तशतसङ्ख्यैः 'राणएहिं ति लघुराजविशेषैः श्रीपालसेवकैर्झटिति-शीघ्रं समन्तात्-सर्वदिक्षु वेष्टितः॥१०४०॥च - पुनः तैः ‘पच्चारिओं त्ति प्रभाषितः, कथमित्याह- हे नरवर-हे राजन् ! अद्यापि अभिमानम्-अहङ्कारं त्यज, श्रीपालराजस्य पादौ-चरणौ प्रणम-प्रकर्षेण नम, मुधिकया-वृथा मा म्रियस्व ॥१०४१॥एवमुक्तस्तथापि स यावद्युद्ध्यमानो न थक्क'इति न निवर्तते तावत्तैः-श्रीपालस्य सुभटैः सोऽजितसेनो-राजाऽधः पातयित्वा जीवन्नेव लीलया बद्धः॥१०४२ ॥
For Private and Personal Use Only