SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तत्थ य पप्पडभंग, भज्जंति रहा य कोहलयभेअं। भज्जति गया तुरया, चिब्भडछेअंच छिज्जति ॥१०३६॥ तओ- सत्थच्छुरिआ बहुमुंडमंडिआ धउडिआ भडधडेहिं । अंतेहिं निरंतरिआ , भरिआ मयहयगयसएहिं ॥१०३७॥ रुहिरोहजणिअकद्दम-मज्जविमद्दिज्जमाणमडयाणं । कडयडसद्दरउद्दा, खणेण सा रणमही जाया ॥१०३८॥ तत्र च-सङ्ग्रामे रथाः पर्पटभङ्गं भज्यन्ते, यथा पर्पटानां भङ्गो भवेत्तथा भज्यन्ते इत्यर्थः, च - पुनः गजा-हस्तिनः कुष्माण्डकभेदं भिद्यन्ते-विदार्यन्ते, यथा कुष्माण्डकफलानां भेदो-विदारणं भवेत्तथा भिद्यन्ते इत्यर्थः, च - पुनः तुरगाअश्वाचिर्भटच्छेदं छिद्यन्ते, यथा चिर्भटफलच्छेदो भवेत्तथा छिद्यन्ते इत्यर्थः ॥ १०३६ ॥ ततः-तदनन्तरं सा रणमहीसङ्ग्रामभूमिः क्षणेन ईदृशी जाता इति द्वितीयगाथान्त्यपादेऽन्वयः, कीदृशीत्याह- शस्त्रैः आस्तृता-संस्तृता, पुनः बहुभिर्मुण्डैःमस्तकैर्मण्डिता-भूषिता, पुनः भटानां-वीराणां 'धडेहिं ति-निर्जीवकलेवरैः स्थपुटिता-विषमोन्नतीभूता, पुनः अन्त्रैः-शरीरावयवविशेषैर्निरन्तरिता-अन्तररहिता व्याप्तेत्यर्थः, पुनः मृतानां हयानां गजानां च शतैर्भरिता॥१०३७॥तथा रुधिरस्य ओघः-प्रवाहस्तेन जनित-उत्पादितो यः कर्दमस्तन्मध्ये विमर्चमानानि यानि मृतकानि तेषां यः कडकडशब्दस्तेन रौद्रा-भयङ्करा, ईदृशी सा रणभूमिर्जातेत्यर्थः ॥ १०३८॥ के स्थपुट मेट थु-नायुं स्थण. स्थपुट (=\-नाथु स्थग)छ भांत स्थपुटिता. स्थपुट शब्ने तद्धित इत प्रत्यय લાગતાં અને સ્ત્રીલિંગમાં મા લાગતાં પુરતા શબ્દ બન્યો છે. For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy