________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कस्सवि भडस्स सीसं, खग्गच्छिन्नं च वालविकरालं । रविणोऽवि राहुसंकं, करेइ गयणमि उच्छलिअं ॥१०३३॥ कोऽवि भडो सिल्लेणं, गयणे उल्लालिओ महल्लेणं । दीसइ सुरंगणाहिं, सग्गमिअंतो सदेहुब ॥१०३४॥ कोऽवि हु भडो भिडंतो, छिन्नसिरो खग्गखेडयकरो अ । गयसऋणसीसभारो, पणच्चए जायहरिसुव्ब ॥१०३५॥
कस्यापि भटस्य-शूरस्य शीर्ष-मस्तकं खड्गेन छिन्नं वालैः केशैविकरालं गगने-आकाशे उच्छलितं सत् रवेः- सूर्यस्यापि राहो-राहुग्रहस्य शङ्कां करोति-उत्पादयति ॥१०३३॥ कोऽपि भटो महता 'सिल्लेणं' ति भिन्दिपालेन बरछीइत्याख्येन शस्त्रेण गगने-आकाशे उल्लालित-ऊर्ध्वमुच्छालितः सन् सुराङ्गनाभिः-देवाङ्गनाभिः सदेहः-शरीरसहितः स्वर्गमायन्-आगच्छन् इव दृश्यते-विलोक्यते ॥१०३४॥ कोऽपि भटो 'भिडन्तों' ति युद्धमानो वैरिणा छिन्नं शिरो यस्य स छिन्नशिराः, च - पुनः खड्गखेटके तरवारिस्फरके करयोः- हस्तयोर्यस्य स खड्गखेटककरः, पुनः ऋणेन सह वर्तमानं सऋणम्, ईदृशं यत् शीर्षमस्तकं तस्य भारः सऋणशीर्षभारः, स गतो यस्य स तथाऽत एव जातो हर्षो यस्य स जातहर्ष इव प्रकर्षेण नृत्यति-प्रनृत्यति ॥१०३५॥
For Private and Personal Use Only