________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******************
**********
कावि हु हसेइ रमणं, महनयणहओवि होसि भयभीओ। नाह! तुमं विज्जुज्जल-भल्लअघाए कहं सहसि ?॥१०२९॥ इत्थंतरंमि उमड-सुहडकयाडंबरं व असहंतो । सूरो फुरंततेओ संजाओ, पुवदिसिभाए ॥१०३०॥ मिलिऊण तक्खणं चिअ, अग्गिमसेणाइ उभडा सुहडा । मग्गणमसिक्खिपि हु, कुणंति पढमासिघायाणं खग्गाखग्गि सरासरि, कुंताकुंतिप्पयंडदंडं च । जुझंता ते सुहडा, संजाया एगमेगं च ॥१०३२॥
कापि स्त्री रमणं-भर्तारं हसति, हे नाथ ! त्वं मम नयनाभ्यां हतोऽपि भयभीतो भवसि, तर्हि विद्युदिव-तडिदिव उज्ज्वला ये 'भल्लयत्ति-कुन्तास्तेषां घातान्-प्रहारान् कथं सहसे-सहिष्यसे ? ॥१०२९॥ अत्रान्तरे-अस्मिन्नवसरे उद्धता ये सुभटास्तैः कृतमाडम्बरमसहमान इव सूरः - सूर्यः पूर्वदिग्भागे-पूर्वस्यां दिशि फुरत्-सञ्चरत्तेजो यस्य स फुरत्तेजाः सजातःउदित इत्यर्थः॥१०३०॥तदा अग्रिमसेनयोः-पुरोवर्तिकटकयोः उद्भटाः-सुभटास्तत्क्षणं-तत्काल एव परस्परं मिलित्वा प्रथम येऽसिघाताः-खडगप्रहारास्तेषामशिक्षितमपि मार्गणं-याचनां कुर्वन्ति ॥१०३१॥ खङ्गैः खड्गैः प्रहृत्य इदं युद्धं प्रवृत्तमिति खड्गाखड्गि, तथा शरैः शरैः प्रहृत्य इदं युद्धं प्रवृत्तमिति शराशरि, तथा कुन्तैः कुन्तैः प्रहृत्य इदं युद्धं प्रवृत्तमिति कुन्ताकुन्ति, च - पुनः प्रचण्डा दण्डा यत्र कर्मणि तत्प्रचण्डदण्डं यथा स्यात्तथा युध्यमाना-युद्धं कुर्वाणास्ते सुभटा एकमेकं च सजाताःसर्वेऽपि एकत्रीभूता इत्यर्थः ॥१०३२॥
********
******
For Private and Personal Use Only