________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
समयंमि पसूयाओ, जायाओ कन्नगाउ दोहिंपि । नरनाहोवि सहरिसो, वद्धावणयं करावेई ॥५२॥ सोहग्गसुंदरीनंदणाइ सुरसुंदरीत्ति वरनामं । बीयाइ मयणसुंदरि, नामं च ठवेइ नरनाहो ॥५३॥ समये समप्पियाओ, ताओ सिवधम्मजिणमयविऊणं । अज्झावयाण रन्ना, सिवभूतिसुबुद्धिनामाणं ॥५४॥ सुरसुंदरी अ सिक्खइ, लिहियं गणियं च लक्खणं छंद । कब्बमलंकारजुयं, तक्कं च पुराणसमिईओ ॥५५॥ सिक्खेइ भरहसत्थं,गीयं नटुं च जोइसतिगिच्छं । विज्जं मंत तंतं, हरमेहलचित्तकम्माई ॥५६॥
द्वाभ्यामपि राजीभ्यां समये-पूर्णकाले कन्यके जाते-प्रसूते नरनाथो-राजापि सहर्षः सन् वर्धापनकं कारयति ॥५२॥ नरनाथो-राजा सौभाग्यसुन्दर्या या नन्दना नाम पुत्री तस्याः सुरसुन्दरीति वरं-प्रधानं नाम स्थापयति, च - पुनः द्वितीयाया रूपसुन्दरीपुत्र्या मदनसुन्दरीति नाम स्थापयति ॥५३॥ समयेऽध्ययनकाले ते द्वे अपि कन्यके शिवधर्मजिनमतविदोः शिवधर्मजिनधर्मज्ञायकयोः शिवभूतिसुबुद्धिनाम्नोः अध्यापकयोः-पाठकयो राज्ञा समर्पिते, अध्ययनार्थं दत्ते इत्यर्थः ॥५४॥ सुरसुन्दरी च प्रथमं लिखितं- लेखनकलां शिक्षति, च-पुनर्गणितं-गणनकलां शिक्षति, ततो वस्तूनां लक्षणं शिक्षति, तथा छन्दःशास्त्रं, तथाऽलङ्कारैर्युतं काव्यशास्त्रं, तथा पुराणानि स्मृतिश्च शिक्षति ॥५५॥ पुनर्भरतशास्त्र-नाट्यशास्त्र शिक्षति, तथा गीतं-गानं च - पुनर्नाट्यं नर्तितं शिक्षति, तथा ज्योतिश्शास्त्र रोगचिकित्साशास्त्रं च शिक्षति, पुनर्विद्यां मन्त्रं च शिक्षति, तथा हरमेखलचित्रकर्माणि-कलाविशेषान् शिक्षति ॥ ५६ ॥
************
*****
For Private and Personal Use Only