SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क he हा १३ * www.kobatirth.org * पढमा माहेसरकुल-संभूया तेण मिच्छदिट्ठित्ति । बीया सावगधूया, तेणं सा सम्मदिट्ठित्ति ॥४८॥ * ताओ सरिसवयाओ, समसोहग्गाउ सरिसरुवाओ । सावत्तेवि हु पायं, परुष्परं पीतिकलियाओ ॥४९॥ * नवरं ताण मट्ठिय-धम्मसरूवं वियारयंताणं । दूरेण विसंवाओ, विसपीउसेहिँ सारिच्छो ॥५०॥ ताओ अ रमंतीओ, नवनवलीलाहिं नरवरेण समं । थोवंतरंमि समए, दोवि सगब्भाउ जायाओ ॥ ५१ ॥ * तत्र प्रथमा सौभाग्यसुन्दरी माहेश्वरकुले सम्भूता - उत्पन्नाऽस्ति तेन कारणेन मिथ्या- विपरीता दृष्टिर्यस्याः सा मिथ्यादृष्टिरिति आसीत्, द्वितीया श्रावकपुत्री अस्ति, तेन कारणेन सा रूपसुंदरी समीचीना-सत्या दृष्टिर्यस्याः सा सम्यग्दृष्टिः इत्यासीत् ॥४८॥ ते द्वे राज्ञ्यौ कीदृश्यौ स्तः इत्याह- सदृशं वयो- यौवनावस्था ययोस्ते सदृशवयसौ पुनः समं- सदृशं सौभाग्यं * ययोः ते समसौभाग्ये, पुनः सदृशं रूपं सौन्दर्यं ययोस्ते समरूपे, पुनः सपत्न्या भावः सापत्नं तस्मिन् सापत्नेऽपि सति हु इति निश्चितं, प्रायो- बाहुल्येन परस्परं प्रीत्या कलिते - युक्ते स्तः ॥४९॥ नवरमिति विशेषः- स्वमनः स्थितधर्मस्वरूपं विचारयन्त्योस्तयोः द्वयोः राज्ञ्योः दूरेण अत्यर्थं विसंवादो-विवाद आसीत्, कीदृशो विसंवादः ? विषपीयूषैः-विषामृतैः सदृक्षः परस्परविरुद्धत्वादिति भावः ॥ ५० ॥ ते च द्वे अपि राज्ञ्यौ नरवरेण राज्ञा समं सार्द्धं नवनवलीलाभिः अपूर्वापूर्वक्रीडाभिः रमाणे क्रीडन्त्यौ स्तोकश्वासावन्तर इति तस्मिन् समये-काले सगर्भे- गर्भवत्यौ जाते ॥५१॥ * Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 榮 * * * *
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy