________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
*
*
**
**
*
*
*
तीसे पुरीई सुरवरपुरीई अहियाइ वण्णणं काउं । जइ निउणबुद्धिकलिओ, सक्कगुरू चेव सक्केइ ॥ ४४ ॥ तत्थत्थि पुहविपालो, पयपालो नामओ अ गुणओ अ । जस्स पयावो सोमो, भीमो विय सिट्ठजणे ॥४५॥ तस्सवरोहे बहुदेहसोहअवहरियगोरिगब्वेवि । अच्चंतं मणहरणे, निउणाओ दुन्नि देवीओ ॥४६॥ सोहग्गलडहदेहा, एगा सोहग्गसुंदरीनामा । बीया अ रूवसुंदरिनामा रूवेण रइतुल्ला ॥४७॥
सुरवरपुर्या-इन्द्रपुर्या अधिकायाः तस्या उज्जयिनीपुर्या वर्णनं कर्तुम् यदि निपुणबुड्या कलितो-युक्तः कश्चित् शक्नोति तर्हि शक्रगुरुः- बृहस्पतिरेव शक्नोति-समर्थो भवति, नान्य इति भावः, लोकोक्त्या बृहस्पतिः शक्रगुरुरुच्यते ॥४४॥ तत्र नगाँ प्रजापालो नाम पृथिवीपालो-राजाऽस्ति, स च नामतश्च गुणतश्च प्रजापाल एव, प्रजाः पालयतीति व्युत्पत्तेः, स कीदृशः ? इत्याह- यस्य प्रतापः शिष्टेषु दुष्टेषु च सौम्यो - मनोहरो भीमो-भयङ्करश्चापि क्रमेण विद्यते, शिष्टेषु-सत्पुरुषेषु सौम्यः दुष्टेसु भीम इत्यर्थः ॥४५॥ तस्य राज्ञः अवरोधेऽन्तःपुरे द्वे देव्यो- राज्यौ मनोहरणे-पत्युर्मनोरञ्जने अत्यन्तं निपुणे स्तः कीदृशेऽवरोधे ? बहुदेहशोभाऽपहृतगौरीगङ्घऽपि- बह्वी या देहस्य -शरीरस्य शोभा तया अपहृतो गौर्याः -पार्वत्या गर्वः - अहङ्कारो येन स तस्मिन्, एतादृशेऽपि अन्तःपुरे द्वे देव्यौ विशेषतः सौभाग्यवत्यौ स्त इत्यर्थः ॥ ४६॥ ते द्वे एव नामत आहतयोर्मध्ये एका सौभाग्यसुन्दरीनामा द्वितीया च रूपसुन्दरीनामा, तत्राद्या कीदृशी? - सौभाग्यलडहदेहा-सौभाग्येन मनोहरो देहो यस्याः सा तथा, द्वितीया रूपेण रतितुल्या ॥ ४७ ॥
*
**
*
*
****
*
For Private and Personal Use Only