________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
ho 2
हा
१५
*
* अन्नाइंपि कुंडलविंटलाई करलाघवाइकम्माई । सत्थाई सिक्खियाई, तीइ चमुक्कारजणयाइं ॥५७॥ सा कावि कला तं किंपि, कोसलं तं च नत्थि विन्नाणं । जं सिक्खियं न तीए, पन्नाअभिओगजोगेणं ॥५८॥ सविसेसं गीयाइसु, निउणा वीणाविणोयलीणा सा । सुरसुंदरी वियड्ढा, जाया पत्ता य तारुन्नं ॥५९॥ जारिसओ होइ गुरू, तारिसओ होइ सीसगुणजोगो । इतुच्चिय सा मिच्छा-दिट्ठी उक्किट्ठदप्पा अ ॥६०॥ तह मयणसुंदरीवि हु, एयाउ कलाओ लीलमित्तण । सिक्खेइ विमलपन्ना, धन्ना विणएण संपन्ना ॥ ६१ ॥
*
www.kobatirth.org
*
Acharya Shri Kailassagarsuri Gyanmandir
तथा सुरसुन्दर्या अन्यान्यपि कुण्टलविष्टलानि-कार्मणवशीकरणादीनि शिक्षितानि, पुनः करलाघवादीनि हस्तचापलादीनि कर्माणि क्रियाविशेषाः शिक्षितानि तथा अन्यान्यपि चमत्कारजनकानि - जनानां चित्तेषु चमत्कारोत्पादकानि शास्त्राणि शिक्षितानि ॥५७॥ सा कापि कला नास्ति तत् किमपि कौशल्यं निपुणत्वं नास्ति, च- पुनस्तत् विज्ञानं चातुर्यं नास्ति, यत् तया सुरसुन्दर्या न शिक्षितं, केनेत्याह- प्रज्ञा-बुद्धिः अभियोगः- उद्यमस्तयोर्योगेन ॥५८॥ सविशेषं गीतादिषु निपुणा-दक्षा * पुनर्वीणाविनोदे लीना-मग्ना सा सुरसुन्दरी विदग्धा छेका जाता, तारुण्यं च यौवनं प्राप्ता ॥ ५९ ॥ यादृशको गुरुर्भवति * तादृशक एव प्रायः शिष्ये गुणयोगो - गुणसम्बन्धो भवति, इतः - अस्मात्कारणादेव सा सुरसुन्दरी मिथ्यादृष्टिः उत्कृष्टदर्पा च आसीत्, मिथ्या दृष्टिर्यस्याः सा, उत्कृष्टो दर्पो मानो यस्या सा इति समासः ६०॥ तथा मदनसुन्दरी अपि एताः प्रागुक्ता लेखनाद्याः लीलामात्रेण शिक्षति, कीदृशी मदनसुन्दरी ? - विमला - निर्मला प्रज्ञा-बुद्धिर्यस्याः सा विमलप्रज्ञा, तथा धन्या-धर्मधनं * लब्धी, तथा विनयेन सम्पन्ना - युक्ता ॥ ६१ ॥
For Private and Personal Use Only
*