________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**************************
सोहिज्जइ रणभूमी, किज्जइ पूआ य सयलसत्थाणं । सुहडाणं च पसंसा, किन्जइ भट्टेहिं उच्चसरं ॥१०२१॥ किज्जंति भूहरीओ, सुहडाणं चारुचंदणरसेण । पूरिज्जंति अ सिहरा, चंपयकुसुमेहिं पवरेहिं ॥१०२२॥ वामपयतोडरेहिं, दाहिणकरचारुवीरवलएहिं । वारणयचामरेहिं नजंति फुडं महासुहडा ॥१०२३॥ गयगज्जिअं कुणंता, सुहडगणा तत्थ सीहनायं च । मुच्चंता नच्चंता, कुणंति वरवीरवरणीओ ॥१०२४॥
ततो रणभूमिः-सङ्ग्रामभूमिका शोध्यते-प्रस्तरकण्टकाद्यपनयनेन शुद्धा क्रियते, च - पुनः सकलशस्त्राणां पूजा क्रियते, च - पुनः भट्टैः-भट्टलोकैः उच्चः स्वरो यत्र कर्मणि तत् उच्चस्वरं यथा भवेत्तथा सुभटानां-योधानां प्रशंसा-श्लाघा क्रियते ॥१०२१॥ तथा सुभटानां चारु-सुन्दरं यच्चन्दनं तस्य रसेन 'भूहरीओ ति-तिलकविशेषाः क्रियन्ते, च - पुनः प्रवरैः प्रधानैश्चम्पककुसुमैः-चम्पकपुष्पैः सुभटानां शिरस्सु शेषराणि पूर्यन्ते ॥१०२२॥ वामपदे-वामचरणे टोडरैः-माल्यविशेषैस्तथा दक्षिणकरे चारुभिः मनोहर्वीरवलयैः-वीरत्वसूचकैः कटकविशेषैस्तथा वारणशब्देन आतपवारणमुच्यते आतपवारैः-छत्रैः पुनश्चामरैः स्फुटं-प्रकटं महासुभटा ज्ञायन्ते ॥१०२३॥ तत्र सैन्यद्वये सुभटनां गणाः-समूहा गजवत् गर्जितं कुर्वन्तश्च -पुनः सिंहनादं मुञ्चन्तः पुनर्नृत्यन्तो-नृत्यं कुर्वन्तो वरवीरवरणानि-परस्परं शस्त्रप्रहारयाचनानि कुर्वन्ति ॥१०२४॥
*********************
For Private and Personal Use Only