________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तं सोउणं सो अजिअसेणरायावि एरिसं भणइ । दूओ अ दिओ अ तुमं, नज्जसि एएण वयणेणं ॥१०१२॥ पढमं महुरं मझंमि अंबिलं कडुअतित्तयं अंते । वुत्तुं भुत्तुं व तुम, जाणतो होसि चउरमुहो ॥१०१३॥ निअया न केवि अम्हे, तस्स न सो कोऽवि अम्ह निअओत्ति । सो अम्हाणं सत्तू, अम्हेवि अ सत्तुणो तस्स ॥१०१४॥ जं जीवंतो मुक्को, सो तइआ बालओत्ति करुणाए । तेणऽम्हे हीणबला, सो बलिओ वन्निओ तुमए ॥१०१५॥
तद्-दूतवचनं श्रुत्वा सोऽजितसेनो राजापि ईदृशं वचनं भणति, कीदृशं भणतीत्याह-अरे त्वमेतेन वचनेन दूतश्च द्विजोब्राह्मणो ज्ञायते ॥१०१२॥ प्रथमं मधुरं, मध्ये आम्लम्, अन्ते कटुकं तिक्तं च-तीक्ष्णम्, ईदृशं वचनं वक्तुम्-कथयितुमीदृशं भोजनं भोक्तुं च जानन् त्वं चतुर्मुखो भवसि, चत्वारि मुखानि यस्य स तथा ॥ १०१३॥ वयं केपि तस्य-तव स्वामिनो निजकाः-स्वकीया न स्मः, स-तव स्वामी अस्माकं कोऽपि निजको नास्तीति, किन्तु स- त्वत्स्वामी अस्माकं शत्रुरस्ति, वयमपि च तस्य शत्रवः स्मः ॥१०१४ ॥ स-तव स्वामी तदा-तस्मिन्नवसरे बालकोऽस्तीति ज्ञात्वाऽस्माभिः करुणया-अनुकम्पया यज्जीवन्मुक्तस्तेन कारणेन त्वया वयं हीनबला वर्णिताः, स - निजस्वामी बलिको-बलवान वर्णितः॥१०१५॥
******************
*********
For Private and Personal Use Only