________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
************************
कत्थ तुमं सरसरसव - ससयसमाणोसि देव ! हीणबलो। कत्थ य सो रयणायर - मेरुमयदेहिं सारिच्छो ॥१००९॥ जइ तं रुट्ठोऽसि न जीविअस्स ता झत्ति भत्तिसंजुत्तो । सिरिसिरिपालनरेसर - पाए अणुसरसु सुपसाए ॥१०१०॥ जइ कहवि गब्बपन्वय - मारूढो नो करेसि तस्साणं । तो होही जुझसज्जो, कज्जपयं इत्ति चेव ॥१०११॥
पुनर्हे देव ! - हे राजन् ! कुत्र त्वं ? कुत्र च स श्रीपालः ? कथमित्याह-त्वं तु सरःसर्षपशशकैः समानः-तुल्योऽसि, सरः-सरोवरः सर्षपो-लघुधान्यविशेषः शशको-लघुजन्तुविशेषः तैः सदृश इत्यर्थः, अत एव हीनं बलं यस्य स हीनबलस्त्वमसि, स श्रीपालस्तु रत्नाकरमेरुमृगेन्द्रैः सदृक्षः-तुल्योऽस्ति,रत्नाकरः - समुद्रः मेरुः -सुरगिरिः मृगेन्द्रः-सिंहस्तैः सदृश इत्यर्थः, एतावता क्व सरः ? क्व समुद्रः ? क्व सर्षपः ? क्व मेरुः ? स्व शशकः ? क्व सिंहः ? इति भावः ॥१००९॥ यदि त्वं जीवितस्योपरिन रुष्टोऽसि तत्-तर्हि झटिति-शीघ्रं भक्त्या संयुक्तः-सहितः सन् श्रीश्रीपालनरेश्वरस्य पादौ-चरणौ अनुसरसेवस्व, कीदृशौ पादौ ?-सुष्ठु-शोभनः प्रसादो ययोस्तौ सुप्रसादौ ॥१०१०॥ यदि कथमपि गर्वः-अहङ्कारस्तद्रूपं पर्वतमारूढः सन् तस्य श्रीपालस्य आज्ञां नो करोषि ततः-तर्हि युद्धाय-युद्धार्थं सज्जो भव, कार्यपदम् इयदेव - एतावदेवास्ति ॥१०११॥
For Private and Personal Use Only