SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ********************** ता जुज्जए तुज्झवि तंमि रज्जभारावयारणं काउं । जं जुन्नर्थभभारो, लोएवि ठविज्जइनवेसु ॥१००४॥ अन्नं च तस्स रन्नो, पयपंकयसेवणथमन्नेवि । बहवेऽवि हु नरनाहा, समागया संति भत्तीए ॥१००५॥ जं तुब्भे निअयावि हु, नो पत्ता तस्स मिलणकज्जेवि । सोवि हु तक्किज्जइ दुज्जणेहिं नूणं कुलविरोहो ॥ जो पुण कुले विरोहो, सो रिउगेहेसु कप्परुक्खसमो । तेण न जुज्जइ तुम्हं, परुपरं मच्छरो कोऽवि ॥ सोवि हु किज्जउ जइ किर, नज्जइ अहमम्हि इत्थ सुसमत्थो । कत्थ तुम खज्जोओ, कत्थ य सो चंडमत्तंडो?॥ ततः-तस्मात्कारणात् तवापि तस्मिन् श्रीपाले राज्यभारस्य अवतारणं कर्तुं युज्यते, यत्-यतो लोकेऽपि जीर्णस्तम्भस्य भारो नवेषु-नवीनस्तम्भेषु स्थाप्यते ॥१००४॥ अन्यच्च-अपरं च तस्य राज्ञः पदपङ्कजयोः-चरणकमलयोः सेवनार्थमन्येऽपि बहवोऽपि नरनाथा-राजानो भक्त्या समागताः सन्ति ॥१००५॥ यत् यूयं निजका अपि-आत्मीया अपि तस्य-श्रीपालराजस्य मिलनकार्येऽपि -मिलनार्थमपि नो प्राप्ताः सोऽपि स एव कुलविरोधो-गृहविरोधो, नूनं-निश्चयेन दुर्जनः-शत्रुभिस्तय॑तेअभिलष्यते, सोऽपीति अपिशब्द एवकारार्थः ॥१००६॥ यः पुनः कुले विरोधः स रिपुगेहेषु-वैरिगृहेषु कल्पवृक्षसमःकल्पवृक्षतुल्योऽस्ति, तेन कारणेन युष्माकं परस्परम्-अन्योऽन्यं कोऽपि मत्सरो-द्वेषो न युज्यते ॥१००७॥ सोऽपिगृहविरोधोऽपि क्रियतां यदि किलेति निश्चयेन अहं अत्र-विरोधे सुतराम्-अतिशयेन समर्थोऽस्मीति ज्ञायते, परं क्व त्वं खद्योततुल्यः कुत्र च स श्रीपालश्चण्डमार्तण्डः - प्रचण्डसूर्यसदृशः ? भवतोर्द्वयोः खद्योतसूर्ययोरिव महदन्तरमस्तीति भावः ॥१००८॥ -*-*-*-*-*-*-*************** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy