________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
२२४
q
*
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
*
सो ओअ अमइबल - कलिओ सम्माणिऊण भूवइणा । संपेसिओ तुरंतो, पत्तो चंपाइ नयरीए ॥९९९॥ तत्थाजिअसेणनरेसरस्स पुरओ पसन्नवयणेहिं । सो दूओ चउरमुहो, एवं भणिउं समाढत्तो ॥ १००० नरवर ! तए तथा जो, सिरिपालो भायनंदणो बालो । भूवालपयपइट्ठो, दिट्ठो भूभारअसमत्थो ॥१००१॥ तो तं भारं आरोविऊण निअयंमि चेव खंधमि । सयलकलसिक्खणत्थं, जो अ तए पेसिओ आसि ॥ १००२ ॥ सो सयलकलाकुसलो, अतुलबलो सयलरायनयचलणो । चउरंगबलजुओ तुह, लहुअत्तकए इमो एइ ॥१००३॥
ओजो-मानसं बलं तेजो-शरीरप्रतापो मतिः- बुद्धिः बलं - पराक्रमस्तैः कलितो- युक्तः स दूतो भूपतिना - श्रीपालमहाराजेन सम्मान्य-सत्कार्य सम्प्रेषितः सन् त्वरमाणः शीघ्रं गच्छन् चम्पायां नगर्यां प्राप्तः ॥ ९९९ ॥ तत्र चम्पायां नगर्यां स चतुर्मुखो दूतो अजितसेननरेश्वरस्य पुरतः अग्रतः प्रसन्नवचनैः - मधुरवाक्यैरेवं भणितुं वक्तुं समारब्धः - प्रारम्भं कृतवान् ॥१०००॥ हे नरवर - हे राजन् ! त्वया तदा तस्मिन्काले यो भ्रातृनन्दनो-भ्रातुः पुत्रः श्रीपालो बालो भूपालपदे राजपदे प्रतिष्ठा स्थितिर्यस्य स तथाभूतो बालत्वाद् भूभारे- पृथ्वीभारोत्पाटनेऽसमर्थो दृष्टः ॥ १००१ ॥ ततस्तं भारं निजके-स्वकीये एव स्कन्धे आरोप्यसंस्थाप्य च पुनः यः श्रीपालः सकलकलाशिक्षणार्थं त्वया प्रेषितो विदेशे मुक्त आसीत् ॥ १००२ ॥ स श्रीपालः सकलकला कुशलो - निपुणस्तथा अतुलं- सर्वोत्कृष्टं बलं सैन्यं यस्य स तथा पुनः सकलराजैर्नतौ चलनौ पादौ यस्य स तथा पुनश्चतुरङ्ग यद् बलं-सैन्यं तेन युक्तोऽयं तव लघुकृते- लघुत्वकरणार्थम् एति - आगच्छति ॥१००३॥
For Private and Personal Use Only
**********