________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtn.org
Acharya Shri Kailassagarsun Gyanmandie
तो पभणइ नरनाहो, अमच्च ! सच्चं तए इमं भणिअं। किंतु उवायचउक्कक्कमेण किजंति कज्जाइं ॥९९५॥ जइ सामेणं सिज्झइ, कज्जं ता किं विहिज्जए दंडो? । जइ समइ सक्कराए, पित्तं ता किं पटोलाए ?॥९९६॥ तत्तो मंती पभणइ, अहो पहो ! ते वओपहिआ बुद्धी । गंभीरया तमुद्दाहिआ महीओहिआ खंती ॥९९७॥ ता पेसिज्जउ एसो, चउरमुहो नाम दिअवरो दूओ । जो दूअगुणसमेओ, अस्थि जए इत्थ विक्खाओ ॥९९८॥
ततः-तदनन्तरं नरनाथो-राजा श्रीपालः प्रभणति, हे अमात्य !-हे मन्त्रिन् ! त्वया इदं सत्यं भणितं,किन्तु उपायानांसामदामदण्डभेदाख्यानां यच्चतुष्कं तस्य क्रमेण कार्याणि क्रियन्ते ॥९९५॥ यदि साम्ना मधुरवचनेन कार्य सिध्यति तत्-तर्हि किं-किमर्थं दण्डो विधीयते-क्रियते, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति,पित्तं-रोगविशेषो यदि शर्करया - सितोपलया शाम्यति तत्-तर्हि पटोलया-कोशातक्या क्षारवल्ल्या किं?, न किमपि कार्यमित्यर्थः ॥९९६॥ ततः-तदनन्तरं मन्त्री प्रभणति, अहो इति आश्चर्ये, हे प्रभो ! - हे स्वामिन् ! तव बुद्धिर्वयसोऽधिका वर्त्तते, तव गम्भीरता समुद्रादधिका वर्त्तते, क्षान्तिः -क्षमा महीतः-पृथ्वीतोऽधिकाऽस्ति ॥९९७॥ ततः-तस्मात्कारणात् एष चतुर्मुखो नाम द्विजवरो - ब्राह्मणेषु श्रेष्ठो दूतः प्रेष्यताम्, यश्चतुर्मुखो दूतो गुणैः-वाग्मित्वादिभिः समेतो-युक्तोऽत्र जगति विख्यातः -प्रसिद्धोऽस्ति ॥९९८॥
For Private and Personal Use Only