________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**
*
****
**
**
कह कहवि पेरिऊणं, जाव समुट्ठाविया निरुच्छाहा । तो तीए सविसायं, दूहयमेगं इमं पढियं ॥ ९६१॥ कहिं मालव कहिं संखउरि, कहिं बब्बर कहिं नट्ट । सुरसुंदरि नच्चावियइ, दइविहिं दलवि मरट्ट ॥ ९६२ ॥ तं वयणं सोऊणं जणणीजणयाइसयलपरिवारो। चिंतेइ विम्हियमणो, एसा सुरसुंदरी कत्तो ? ॥ ९६३ ॥ उवलक्खिया य जणणीकंठमि विलग्गिऊण रोयंती । जणएणं सा भणिआ, को वुत्तंतो इमो वच्छे ? ॥९६४॥ भणिअं च तओ तीए, ताय ! तया तारिसीइ रिद्धीए । सहिया निएण पइणा, संखपुरिपरीसरं पत्ता ॥९६५॥
निर्गत उत्साहो यस्याः सा निरुत्साहा मूलनटी कथं कथमपि प्रेरयित्वा यावत् समुत्थापिता तावत्तया-मूलनट्या सविषाद-विषादसहितमिदमेकं दोहानामकं छन्दः पठितम् ॥९६१॥ किमिदमित्याह-क्व ? मालवाख्यो देशः यत्र जन्माभूत्, क्व शङ्खपुरीनगरी ? यत्र परिणायिता, क्व बर्बरदेशो ? यत्र विक्रीता, क्व नृत्यं ? -लोकानां पुरो नृत्यकरणं ? दैवेन मरदृत्ति गर्वं दलयित्वा सुरसुन्दरी नर्त्यते-नृत्यं कार्यते ॥९६२॥ तद्वचनं श्रुत्वा जननीजनकादिसकलपरिवारो विस्मितम्आश्चर्यं प्राप्तं मनो यस्य स विस्मितमनाः सन् चिन्तयति- एषा सुरसुन्दरी कुतः समागता ?॥९६३ ॥ उपलक्षिता-सर्वेर्शाता च सती जनन्याः कण्ठे विलग्य रुदन्ती-रोदनं कुर्वती सा-सुरसुन्दरी जनकेन-पित्रा भणिता-उक्ता हे वत्सेज्यं को वृत्तान्तोऽस्तीति ?॥९६४ ॥ ततश्च-तदनन्तरं च तया-सुरसुन्दर्या भणितं, हे तात! तदा तस्मिन्नवसरेऽहं निजेन-स्वकीयेन पत्या-भ; सहिता तादृश्या ऋद्ध्या शङ्खपुर्याः 'परिसर' न्ति पार्श्वदेशं प्राप्ता ॥ ९६५॥
**
*
***
*
*
**
For Private and Personal Use Only