________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
अ अ श्र
हा
२१५
*
**
*
*
*
तो विहिओ अ मालवराया जामाउअंपि पणमेइ । पभणेइ अ सामि ! तुमं, महप्पभावोऽवि नो नाओ ॥ ९५६ ॥ सिरिपालोsवि नरिंदो, पभणइ न हु एस मह पभावोत्ति । किंतु गुरुवइट्ठाणं, एस पसाओ नवपयाणं ॥९५७॥ सोऊण तमच्छरियं, तत्थेव समागओ समग्गोऽवि । सोहग्गसुंदरीरुष्पसुंदरीपमुहपरिवारो ॥ ९५८ ॥ मिलिए य सयणवग्गे, आणंदभरे य वट्टमाणे अ । सिरिपालेणं रन्ना, नाडयकरणं समाइटुं ॥ ९५९ ॥ तो झत्ति पढमनाडयपेडयमाणंदिअं समुट्ठेइ । परमिक्का मूलनडी, बहुपि भणिआ न उट्ठेइ ॥ ९६० ॥
*
ततश्च विस्मितो-विस्मयं प्राप्तो मालवस्य राजा प्रजापालो जामातरमपि श्रीपालं प्रणमति - नमस्करोति, च पुनः * प्रभणति वक्ति, हे स्वामिन् ! महान्प्रभावो यस्य स महाप्रभावोऽपि त्वं मया न ज्ञातः, श्रीपालोऽपि नरेन्द्रः प्रभणति, एष मम प्रभावो न हि अस्तीति, किन्तु गुरूपदिष्टानां नवपदानामेष प्रसादोऽस्ति ॥ ९५७ ॥ तत् आश्चर्यं श्रुत्वा सोभाग्यसुन्दरीप्रमुखः समग्रोऽपि समस्तोऽपि परिवारस्तत्रैव-राजपटमण्डपे समागतः ॥ ९५८ ॥ अथ स्वजनानां सम्बन्धिनां वर्ग-समूहे च मिलिते सति आनन्दभरे-हर्षोत्कर्षे च वर्त्तमाने सति श्रीपालेन राज्ञा नाटककरणं समादिष्टं, नाटककरणाज्ञा दत्तेत्यर्थः ॥ ९५९ ॥ ततः तदनन्तरं झटिति शीघ्रं प्रथमनाटकस्य पेटकं वृन्दमानन्दितं - हर्षितं सन् समुत्तिष्ठति, परमेका मूलनटी - मुख्यनर्त्तकी बहुभणितापि - बहूक्तापि न उत्तिष्ठति ॥ ९६० ॥
*
www.kobatirth.org
*
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
* *