________________
Shri Mahavir Jain Aradhana Kendra
**
सि
रि
सि
रि
वा
18 to hea
ल
क
हा
२१४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामि ! असमाणेणं, समं विरोहो न किज्जए कहवि । ता तुरिअं चिय किज्जउ वयणं दूयस्स भणियमिणं ॥ ९५९ ॥ काऊणं च कुहाडं, कंठे राया पभायसमयंमि । मंतिसामंतसहिओ, जा पत्तो गुड्डरदुवारे ॥ ९५२ ॥ ताव सिरिपालरन्ना, मोआवेऊण तं गलकुहाडं । पहिराविऊण वत्थालंकारे सारपरिवारो ॥ ९५३ ॥ आणाविओ अ मज्झे, दिन्ने य वरासणंमि उवविट्ठो । सो पयपालो राया, मयणाए एरिसं भणिओ ॥ ९५४ ॥ ताय ! तए जो तइया, मह कम्मसमप्पिओ वरो कहिओ । तेणऽज्ज तुह गलाओ, कुहाडओ फेडिओ एसो ॥ ९५५ ॥ किमुक्तमित्याह- हे स्वामिन् ! असमानेन स्वतोऽधिकेन समं-सह विरोधः कथमपि - केनापि प्रकारेण न क्रियते, तत्तस्मात्कारणात् त्वरितं-शीघ्रमेव इदं दूतेन भणितं वचनं क्रियताम् ॥ ९५१ ॥ ततश्च प्रभातसमये कण्ठे कुठारं कृत्वा मन्त्रिभिरमात्यैः सामन्तैश्च सहितो राजा यावत् गुड्डरद्वारे-पटावासद्वारे प्राप्तः ॥ ९५२ ॥ तावत् श्रीपालेन राज्ञा तं कण्ठकुठारं मोचयित्वा त्याजयित्वा वस्त्रालङ्कारान्- प्रधानवस्त्रभूषणानि परिधाप्य सारः परिवारो यस्य स सा० सारपरिवारसहित इत्यर्थः ॥ ९५३ ॥ मध्ये-पटावासमध्ये च आनायितः, दत्ते च वरासने-प्रधानासने उपविष्टः, एवम्भूतः स प्रजापालो राजा मदनसुन्दर्य्या ईदृशं भणित-उक्तः ॥ ९५४ ॥ किमित्याह- हे तात ! त्वया तदा-मत्पाणिग्रहणावसरे यो मत्कर्मसमर्पितो - मम कर्मणा आनीतो वरः कथितस्तेन मद्भर्त्राऽद्य तव गलात् त्वत्कण्ठात् एष कुठारकः स्फेटितः- त्याजितः ॥ ९५५ ॥
For Private and Personal Use Only
*