________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पणमंति तओ ताओ, अट्ठ ण्हुहाओ ससासुयाइ पए । अवि मयणसुंदरीए, जिट्ठिए निययभइणीए ॥९४६॥ अभिणंदियाउ ताओ, ताहिं आणंदपूरियमणाहिं । सम्वोवि हु वुत्तंतो, मयणमंजूसाइ कहिओ अ ॥९४७॥ तासिं च नवण्हंपि हु, वत्थालंकारसारपरिवारं । देइ निवो साणंदो, इक्किक्कं नाडयं चेव ॥ ९४८ ॥ पुट्ठा जिट्ठा मयणा, तुह जयणंपि हु कहं अणावेमि ? । तीए वुत्तं सो एउ कंठपीठट्ठियकुहाडो ॥९४९॥ तं च तहा दूयमुहेण तस्स रन्नो कहावियं जाव । ताव कुविओ अ मालवराया मंतीहिं भणिओ य ॥९५०॥
ततः-तदनन्तरं ता अष्ट स्नुषाः-पुत्रस्य वध्वः स्वश्वश्र्वाः-निजभर्तृमातुः पदो-चरणौ प्रणमति, तथा ज्येष्ठाया-बृहत्या निजकभगिन्या-मदनसुन्दर्या अपि पदौ प्रणमन्ति ॥९४६ ॥ ताभ्यां-श्वश्रूमदनासुन्दरीभ्यां ता अष्टापि अभिनन्दिताः-आशिषा सानन्दाः कृताः, कीदृशीभ्यां ताभ्याम् ?-आनन्देन पूरितं मनो ययोस्ते आनन्दपूरितमनस्यौ ताभ्यां, च - पुनर्मदनमञ्जूषयाविद्याधरराजपुत्र्या सर्वोऽपि प्राक्तनो वृत्तान्तः कथितः ॥ ९४७ ॥ ततो नृपः सानन्दः सन् ताभ्यो नवभ्योऽपि वधूभ्यो वस्त्रालङ्कारसारपरिवारं ददाति, च - पुनरेकैकं नाटकं ददाति ॥ ९४८ ॥ ततो राज्ञा ज्येष्ठा मदना-मदनसुन्दरी पृष्टातव जनकमपि कथं-केन प्रकारेण आनाययामि ?, तदा तया उक्त-हे स्वामिन् ! स मत्पिता कण्ठपीठे स्थितः कुठारो यस्य स एवम्भूत एतु-आगच्छतु ॥९४९ ॥ तच्च वाक्यं तथा-तेन प्रकारेण तस्मै राज्ञे दूतमुखेन यावत्कथापितं तावत् मालवस्य राजा-प्रजापालः कुपितश्च मन्त्रिभिर्भणितश्च, द्वौ चकारौ तुल्यकालं सूचयतः ॥९५०॥
*-*-*-*-*-*-*-*****************
१
For Private and Personal Use Only