________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सभAR*
**************
कमलप्पभा पयंपइ, नूणमिणं मज्झ पुत्तवयणंति । मयणावि भणइ जिणमयवयणाई किमन्नहा हुंति ? ॥९४२॥ उग्धाडियं दुवारं, सिरिपालो नमइ जणणिपयजुयलं । दइअं च विणयपउणं, संभासइ परमपिम्मेणं ॥९४३॥ आरोविऊण खंधे, जणणिं दइअंच लेवि हत्थेण । हारप्पभावउच्चिय, पत्तो नियगुडुरावासं ॥ ९४४ ॥ तत्थ य जणणिं पणमित्तु, नरवरो भद्दासणे सुहनिसन्नं । पभणेइ माय ! तुह पयपसायजणियं फलं एयं ॥९४५॥
तदा कमलप्रभा-नृपमाता प्रकर्षेण कथयति नूनं-निश्चितमिदं मम पुत्रस्य वचनमिति, ततो मदनसुन्दर्यपि भणति, जिनमतानां-जिनमतसेवकानां वचनानि किमन्यथा भवन्ति-असत्यानि भवन्ति ?, न भवन्त्येवेत्यर्थः, अभेदोपचारात् जिनमतशब्देन तत्सेवका गृह्यन्ते॥९४२॥ ततो द्वारमुद्घाटितं तदा श्रीपालो राजा जनन्या-मातुः पदयुगलं-चरणद्वयं नमति, च - पुनर्विनये-विनयकरणे प्रवणां-तत्परां दयितां-प्रियां मदनसुन्दरी परमप्रेम्णा-उत्कृष्टस्नेहेन सम्भाषयति ॥ ९४३॥ ततः श्रीपालो जननी-स्वमातरं स्कन्धे आरोग्य च - पुनः दयितां-स्त्रियं हस्तेन लात्वा-गृहीत्वा हारप्रभावत एव निजगुड्डरावासंस्वकीयपटावासं प्राप्तः॥९४४॥तत्र च पटावासे नरवरोराजा श्रीपालो भद्रासने-सिंहासनविशेषे सुखेन निषण्णाम्-उपविष्टां जननीं प्रणम्य-नमस्कृत्य प्रभणति-वक्ति, किं भणतीत्याह-हे मातस्तव पदप्रसादजनितं-त्वच्चरणप्रसादादुत्पन्नमेतत्फलमस्ति
*************************
**
*****
For Private and Personal Use Only