________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
ᎨᎦ
क
हा
२१०
*
*
*
*
xobe
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आवासिए अ सिन्ने, रयणीए पढमजामसमयंमि । हारपभावेण सयं, राया जणणीगिहं पत्तो ॥ ९३२॥ आवासदुवारि ठिओ, सिरिपालनरेसरो सुणइ ताव। कमलप्पभा पयंपइ, बहुअं पइ एरिसं वयणं ॥९३३॥ वच्छे ! परचक्केणं, नयरी परिवेढिया समंतेणं । हल्लोहलिओ लोओ, किं किं होही न याणामि ? ॥ ९३४ ॥ वच्छस्स तस्स देसंतरंमि पत्तस्स वच्छरं जायं । वच्छे ! कावि न लब्भइ, अज्जवि सुद्धी तुह पियस्स ॥ ९३५ ॥ urs aओ मयणा, मा मा मा माइ ! किंपि कुणसु भयं । नवपयझाणंमि मणे, ठियंमि जं हुंति न भयाई ॥ ९३६ ॥
सैन्ये च आवासिते यथास्थानमुत्तीर्णे सति रजन्यां रात्रौ प्रथमयामसमये - आद्यप्रहरकाले राजा श्रीपालो हारप्रभावेण स्वयम्-आत्मना जनन्या-मातुर्गृहं प्राप्तः ॥ ९३२ ॥ श्रीपालनरेश्वर आवासस्य- मातुर्गृहस्य द्वारे स्थितः ऊर्ध्वः सन् यावत् श्रुणोति तावत् कमलप्रभा स्वमाता वधूं-मदनसुन्दरीं प्रति ईदृशं वक्ष्यमाणं वचनं प्रजल्पति-कथयति, कीदृशमित्याह ॥ ९३३ ॥ हे वत्से ! परचक्रेण परसैन्येन नगरी समन्तेन सर्वासु दिक्षु परिवेष्टिताऽस्ति, लोकः सर्वोऽपि हल्लोहलितोव्याकुलीभूतोऽस्ति, अनुकरणशब्दोऽयं, अथ किं ? किं ? भविष्यतीति न जानामि ॥ ९३४ ॥ तस्य वत्सस्य- मत्पुत्रस्य देशान्तरे प्राप्तस्य वत्सरम् एकं वर्षं जातं, हे वत्से ! अद्यापि तव प्रियस्य त्वद्भर्तुः कापि शुद्धिर्न लभ्यते, उदन्तलेशोऽपि न लब्धः इत्यर्थः ॥९३५॥ ततः-तदनन्तरं मदनसुन्दरी प्रकर्षेण भणति, हे मातर्मा मा मा किमपि भयं कुरुष्व यद्-यस्मात्कारणात् नवपदध्याने मनसि स्थिते सति भयानि न भवन्ति ॥ ९३६ ॥
For Private and Personal Use Only