________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
अ अ
हा
१०९
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मरहट्ठय- सोरट्ठय - सलाडमेवाडपमुहभूवाले । साहंतो सिरिपालो, मालवदेसं समणुपत्तो ॥ ९२८ ॥ तं परचक्कागमणं, सोऊणं चरमुहाओ अइगरुयं । सहसत्ति मालविंदो, भयभीओ होइ गढसज्जो ॥९२९ ॥ कप्पडचुप्पडकणतिणजलइंधणसंगहा य किज्जंति । सज्जिज्जंति अ जंता, तह सज्जिज्जंति वरसुहडा ॥ ९३०॥ एवं सा उज्जेणी, नयरी बहुजणगणेहिं संकिन्ना । परिक्रेढिया समंता, तेणं सिरिपालसिन्नेणं ॥ ९३१ ॥
महाराष्ट्रसौराष्ट्रलाटसहितमेदपाटप्रमुखा देशविशेषास्तेषां ये भूपाला राजानस्तान् साधयन् श्रीपालो मालवदेशं संसम्यक् प्रकारेण अनुप्राप्तः ॥ ९२८ ॥ मालवस्येन्द्रो - मालवेन्द्रः प्रजापालो राजा चरमुखात्-हेरिकमुखात् अतिगुरुकम्अतिमहत् तत्परचक्रागमनं - परसैन्यागमनं श्रुत्वा सहसा इति-अकस्मात् भयभीतः सन् दुर्गसज्जो भवति, दुर्गं सज्जीकृत्य स्थितवानित्यर्थः ॥ ९२९ ॥ तथाहि - 'कप्पड' त्ति वस्त्राणि 'चुप्पड' त्ति घृतादि कणा धान्यानि तृणानि - घासादीनि जलं - पानीयम् इन्धनानि-ज्वालनकाष्ठादीनि तेषां सङ्ग्रहाः क्रियन्ते, च- पुनः यन्त्राणि शतघ्न्यादीनि सज्ज्यन्ते सज्जीक्रियन्ते, तथा वरसुभटाः- प्रधानशूरपुरुषाः प्रशस्यन्ते ॥ ९३० ॥ एवम् अमुना प्रकारेण सा उज्जयिनीनगरी बहूनां जनानां लोकानां गणैःसमूहैः सङ्कीर्णा सती तेन श्रीपालसैन्येन समन्तात्- सर्वासु दिक्षु परिवेष्टिता ॥ ९३१ ॥
For Private and Personal Use Only