________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जह जोई अट्ठमहासिद्धिसमिद्धोऽवि ईहए मुत्तिं । तह झायइ पढमपिअं, अपियाहिं स सहिओऽवि ॥९२४॥ तो तीए उक्कंठियचित्तो जणणीइ नमणपवणो य । सो सिरिपालो राया, पयाणढक्काओ दावेइ ॥९२५॥ मग्गे हयगयरहभड-कन्नामणिरयणसत्थवत्थेहिं । भिट्टिज्जइ सो राया, पए पए नरवरिदेहिं ॥ ९२६ ॥ एवं ठाणे ठाणे, सो बहुसेणाविवडियबलोहो । महिवीढे नइवड्डियनीरो उयहिब्व वित्थरइ ॥ ९२७ ॥
पुनः यथा योगी-ज्ञानदर्शनचारित्रात्मकयोगयुक्तः पुमान् अष्टमहासिद्धिभिरणिमादिभिः समृद्धोऽपि मुक्ति-निर्वाणात्मिका ईहते-वाञ्छति, तथा-तेन प्रकारेण स श्रीपालोऽष्टप्रियाभिः सहितोऽपि प्रथमप्रियां मदनसुन्दरीं ध्यायति-निरन्तरं हृदि स्मरति ॥९२४ ॥ ततः-तदनन्तरं तस्यां मदनसुन्दर्यां तन्मिलने इत्यर्थः उत्कण्ठितम्-औत्सुक्ययुक्तं चित्तं -मनो यस्य स तथोक्तः च - पुनर्जनन्या-मातुनमने-नमस्करणे प्रवणः-तत्परः स श्रीपालो राजा प्रयाणढक्काः-प्रस्थानयशःपटहान् दापयति ॥ ९२५ ॥स श्रीपालो राजा मार्गे पदे पदे नरवरेन्द्रैः हयादिभिः 'भिट्टिज्जई' त्ति ढौक्यते, हया गजा रथा भटाः कन्याश्च प्रतीताः, मणयः चन्द्रकान्ताद्या रत्नानि-माणिक्यादीनि शस्त्राणि वस्त्राणि च बहुविधानि तैरित्यर्थः, क्वचित्कन्नास्थाने 'कंचणत्ति' पाठस्तत्र काञ्चनं-सुवर्णमित्यर्थः॥९२६॥एवम्-अमुना प्रकारेण स श्रीपालो राजा स्थाने स्थाने बहुसेनया विवर्द्धितो बलौघःसैन्यसमूहो यस्य स एवम्भूतः सन् महीपीठे विस्तरति-विस्तारं प्राप्नोति, क इव ?-नदीभिर्वर्द्धितं नीरं पानीयं यस्य स एवम्भूत उदधिः-समुद्र इव, यथा भूपीठे विस्तरति तथेत्यर्थः ॥ ९२७ ॥
***********************
For Private and Personal Use Only