________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
*
*
尜
*
**
हा
२०७ *
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir 笨
इअ भणिऊणं रन्ना, नियकन्ना तस्स रायरायस्स । दिन्ना सा तेणावि हु, परिणीआ झत्ति तत्थेव ॥९२०॥ ती अतिलयसुन्दरि -सहियाओ ताउ अट्ठ मिलियाओ । सिरिपालस्स पिआओ, मणोहराओ परं तहवि ॥ ९२१ जह अट्ठदिसाहिं अलंकिओऽवि मेरू सरेइ उदयसिरिं । जह वंछइ जिणभत्तिं, अडग्गमहिसीजुओऽवि हरी ॥ ९२२॥ अव अट्ठदिट्टिसहिओ, जहा सुदिट्ठी समीहए विरई । साहू जहऽट्ठपवयणमाइजुओवि हु सरइ समयं ॥ ९२३ ॥
इति भणित्वा-उक्त्वा महासेनेन राज्ञा तस्मै राजराजाय - महाराजाय निजकन्या दत्ता, राज्ञां राजा राजराजस्तस्मै इति विग्रहः, तेन श्रीपालमहाराजेनापि झटिति शीघ्रं तत्रैव स्थाने सा परिणीता ॥ ९२० ॥ तया च तिलकसुन्दर्या सहिता मनोहराःसर्वजनमनोहारिण्यस्ताः श्रीपालस्य प्रिया अष्ट मिलिताः परं तथापि स राजा नवमीं प्रियां स्मरतीत्युत्तरेण सम्बन्धः ॥ ९२१ ॥ कः कामिवेत्याह- यथाऽष्टदिशाभिः पूर्वादिभिरलङ्कृतोऽपि शोभितोऽपि मेरुः-सुरगिरिः उदयश्रियं-सूर्योदयलक्ष्मीं स्मरति, पुनर्यथा अष्टाभिरग्रमहिषीभिः इन्द्राणीभिर्युतोऽपि सहितोऽपि हरिः- इन्द्रो जिनभक्तिं वाञ्छति ॥ ९२२ ॥ पुनर्यथाऽष्टदृष्टिभिर्मित्रा १ तारा २ बला ३ दीप्रा ४ स्थिरा ५ कान्ता ६ प्रभा ७ परा ८ नामभिः सहितोऽपि सुदृष्टिः सम्यग्दृष्टिरात्मा विरतिं सावद्ययोगविरमणरूपां समीहते वाञ्छति, अष्टदृष्टिस्वरूपं तु योगदृष्टिसमुच्चयाज्ज्ञेयम्, पुनर्यथा अष्टप्रवचनमातृभिःसमितिपञ्चकगुप्तित्रयरूपाभिर्युतोऽपि साधुः हु इति निश्चितं समतां समभावरूपां स्मरति ॥ ९२३ ॥
For Private and Personal Use Only
***
* *