________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
२०६
*
*
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तक्कालं सा बाला, सुत्तविबुधुव्व उट्टिया झत्ति । विम्हियमणा य जंपइ ताय ! किमेसो जणसमूहो ? ॥९१५॥ महसेो साणंदो, पभणइ वच्छे ! तुमं कओ आसि ? । जइ एस महाराओ, नागच्छिज्जा कयपसाओ ॥ ९१६॥ एएणं चिय दिन्ना, तुह पाणा अज्ज परमपुरिसेणं । जेण चियाओ उत्तारिऊण उट्ठावियासि तुमं ॥९१७॥ तो ती साणंद, दिट्ठो सो समणसायरससंको । सिरिपालो भूवालो, सिणिद्धमुद्धेहिं नयणेहिं ॥ ९१८ ॥ महसेो भइ निवं, अम्हं तुम्हेहिं जीविअं दिन्नं । तो जीविआओ अहियं, एयं गिव्हेह तुज्झेवि ॥९१९ ॥
ततः सा बाला सुप्ता सती विबुद्धा जागृता इव तत्कालमुत्थिता, च- पुनः विस्मितम् आश्वर्ययुक्तं मनो यस्याः सा विस्मितमनाः सती झटिति शीघ्रं जल्पति, हे तात ! एष जनसमूहः किं ?, किमर्थमित्यर्थः ॥ ९१५ ॥ महासेनो राजा सानन्दःसहर्षः सन् प्रभणति-वक्ति, हे वत्से - हे पुत्र ! यदि एष महाराजो नागच्छेत् तर्हि त्वं कुत आसीत् ?, कीदृश एषः ? कृतः प्रसादः - अनुग्रहो येन सः कृतप्रसादः ॥ ९१६ ॥ एतेनैव परमपुरुषेण- उत्तमपुरुषेण अद्य तुभ्यं प्राणा दत्ताः येन चितात:चित्याया उत्तार्य त्वमुत्थापिताऽसि - ऊर्ध्वकृताऽसि ॥ ९१७ ॥ ततः तदनन्तरं तया - राजकन्यया सानन्दं - सहर्षं यथा स्यात्तथा स श्रीपालो भूपालः स्निग्धमुग्धाभ्यां - सस्नेहरम्याभ्यां नयनाभ्यां दृष्टः कीदृशः सः ? -स्वमन एव सागरः समुद्रस्तत्र शशाङ्कःचन्द्र इव स्वमनः सागर शशाङ्कस्तदुल्लासकत्वादिति भावः ॥ ९१८ ॥ अथ महासेनो राजा नृपं श्रीपालं भणति, युष्माभिरस्मभ्यं * जीवितं दत्तं ततः तस्मात्कारणात् जीवितादप्यधिकामेतां मत्पुत्रीं यूयमपि गृह्णीत ॥ ९९९ ॥
For Private and Personal Use Only
है औट औट औट सैट औ