________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कुल्लागपुरे नयरे, अत्थि नरिंदो पुरंदरो नाम । तस्सत्थि पट्टदेवी, विजयानामेण सुपसिद्धा ॥ ८७३ ॥ हरिविक्कम-नरविक्कम-हरिसिरि-सेणाइसत्तपुत्ताणं । उवरिंमि अत्थि एगा, पुत्ती जयसुंदरीनाम ॥ ८७४ ॥ तीए कलाकलावं, रूवं सोहग्गलडहलायन्नं । दठूण भणइ राया, को णु इमीए वरो जुग्गो ? ॥ ८७५ ॥ तो तीए उवझाओ, भणइ महाराय ! तुज्झ पुत्तीए । सयलकलासत्थाई, अवगाहंतीइ एयाए ॥ ८७६ ॥ सत्थपत्थावपत्तं, राहावेहस्स साहणसरूवं । विणएण अहं पुट्ठो, कहियं च तयं मए एवं ॥ ८७७ ॥ मंडिज्जंते थंभट्ठिअट्ठ चक्काइं जंतजोगेणं । सिट्ठिविसिट्ठिकमेणं, एगंतरियं भमंताई ॥ ८७८ ॥
कुल्लागपुरे नगरे पुरेन्द्रो नाम नरेन्द्रो-राजाऽस्ति, तस्य राज्ञो विजयानाम्नी सुतराम्-अतिशयेन प्रसिद्धा पट्टदेवीपट्टराज्ञी अस्ति ॥ ८७३ ॥ हरिविक्रम-नरविक्रम-हरिसेण-श्रीषेणादिसप्तपुत्राणामुपरि एका जयसुन्दरीनाम पुत्री अस्ति ॥ ८७४ ॥ तस्याः कन्यायाः कलाकलापं-कलासमूहं पुनः रूपम्-आकृति तथा सौभाग्येन ‘लडहत्ति' सुन्दरं लावण्यं दृष्ट्वा राजा भणति, नु इति वितर्केस्याः कन्याया योग्यो वरो-भर्ता कोऽस्ति ?॥८७५॥ततस्तस्याः कन्याया उपाध्यायः-पाठको भणति, हे महाराज ! सकलकलाशास्त्राणि अवगाहमानया-अभ्यस्यन्त्या एतया तव पुत्र्या ॥ ८७६ ॥ शस्त्रप्रस्तावात्-शस्त्रप्रकमात् प्राप्तं राधावेधस्य साधनस्वरूपं विनयेन-बहुमानेन अहं पृष्टः, मया च तद्राधावेधसाधनस्वरूपं एवं-वक्ष्यमाणप्रकारेण कथितम् ॥ ८७७ ॥ कथमित्याह- स्तम्भे स्थितानि अष्ट चक्राणि मण्ड्यन्ते-रच्यन्ते, कीदृशानि ?-यन्त्रयोगेन सृष्टिविसृष्टिक्रमेण एकान्तरितं भ्रमन्ति-भ्रमणं कुर्वाणानि एकं चक्रं सृष्ट्या भ्रमति, द्वितीयं विसृष्ट्या पुनरेकं सृष्ट्या द्वितीयं विसृष्ट्या भ्रमतीत्यर्थः ॥८७८॥
For Private and Personal Use Only