________________
E
Acharya Shri Kailassagarsur Gyanmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
•****************************
दळूण तं समस्सापूरणमइविम्हिया कुमारीवि । आणंदपुलइअंगी, वरइ कुमारं तिजयसारं ॥ ८६८ ॥ रायपमुहोऽवि लोओ, भणइ अहो चुज्जमेगमेयंति । जं पूरिजंति मणोगयाउ एवं समस्साओ ॥८६९॥ जं च इमं सकरेणं, पुत्तलयमुहेण पूरणं ताणं । तं लोउत्तरचरिअं, कुमरस्स करेइ अच्छरिअं ॥ ८७० ॥ राया नियधूयाए, तीए पंचहिं सहीहिं सहियाए । कारेइ वित्थरेणं, पाणिग्गहणं कुमारेणं ॥ ८७१ ॥ इत्थंतरंमि एगो, भट्टो दठूण कुमरमाहपं । पभणेइ उच्चसई भो भो निसुणेह मह वयणं ॥ ८७२ ॥
तत्समस्यापूरणं दृष्ट्वा-निरीक्ष्य कुमारी अपि अतिविस्मिता-अतिशयेन आश्चर्यं प्राप्ताऽत एवानन्देन-हर्षेण पुलकितंरोमोमयुक्तमङ्गं यस्याः सा एवम्भूता सती कुमारं वृणोति, कीदृशं कुमारम् ?-त्रिजगति सारं-सारभूतम् ॥ ८६८ ॥ राजप्रमुखोऽपि लोक इत्येवं भणति, अहो एकमेतत् चोद्यम्-आश्चर्य, किमेतदित्याह- यत् परेषां मनोगताः समस्या एवम्उक्तप्रकारेण पूर्यन्ते ॥ ८६९ ॥ यच्च स्वकरेण-निजहरुतेन पुत्रकमुखेन इदं तासां समस्यानां पूरणं तत् कुमारस्य लोकोत्तरचरितं-सर्वलोकेभ्यः प्रधानं चरित्रमाश्चर्यं करोति-उत्पादयति ॥ ८७० ॥ राजा पञ्चभिः सखीभिः सहिताया निजपुत्र्या विस्तारेण कुमारेण पाणिग्रहणं कारयति ॥ ८७१॥अत्रान्तरे- अस्मिन्नवसरे एको भट्टः कुमारस्य माहात्म्यं दृष्ट्वा उच्चः शब्दो यत्र कर्मणि तत् उच्चशब्दं यथा स्यात्तथा प्रभणति-प्रकर्षेण कथयति, किं भणतीत्याह- भो भो लोका ! मम वचनं श्रुणुत-आकर्णयत ॥ ८७२॥
sha
For Private and Personal Use Only