________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
१९८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चक्कारयविवरोवरि राहानामेण कट्टपुत्तलिया । ठविया हवेइ तीए, वामच्छी किज्जए लक्खं ॥ ८७९ ॥ हिट्ठट्ठियतिल्लकडाहराहपडिबिंबलद्वलक्खेणं । उट्टसरेण नरेणं, तीए वेहो विहेयब्वो ॥ ८८० ॥ सो पुण केवि विरलेण चेव विन्नायधणुहवेएण । उत्तमनरेण किज्जइ, जं गिज्जइ एरिसं लोए ॥८८१॥ विणयंता चेव गुणा, संतंतरसा किआ उ भावंता । कव्वं च नाडयंतं, राहावेहंतमी सत्थं ॥ ८२ ॥ ८
चक्राणामरकेषु यानि विवरणानि-छिद्राणि तेषामुपरि राधा इतिनाम्ना काष्ठपुत्रिका-काष्ठमयी पञ्चालिका स्थापिता भवति, तस्या वाममक्षि लक्ष्यं-वेध्यं क्रियते ॥ ८७९ ॥ अधः स्थितो यस्तैलकटाहकस्तस्मिन् यत् राधायाः प्रतिबिम्बं तेन लब्धं लक्ष्यं-वेध्यं येन स तेन नरेण ऊधूर्वमुखबाणेन तस्या राधाया वामाक्षिप्रदेशे वेधो विधातव्यः कर्त्तव्यः ॥ ८८० ॥ स राधावेधः पुनः केनापि विरलेनैव - उत्तमनरेण क्रियते, कीदृशेन ? - विज्ञातो-विशेषेण ज्ञातो धनुर्वेदो येन स तेन, ईदृशेन राधावेधः साध्यते इत्यर्थः, यस्मात्कारणात् लोके ईदृशं गीयते-कथ्यते ॥ ८८१ ॥ तथाहि विनयोऽन्ते येषां ते विनयान्ता एव गुणाः सन्ति, सर्वगुणेषु विनयस्यैव प्राधान्यमित्यर्थः तथा शान्तो रसोऽन्ते येषां ते शान्तान्ता रसाः सन्ति, रसेषु शान्तरसस्यैव प्राधान्यमित्यर्थः, पुनर्भावः - शुद्धाध्यवसाय एव अन्ते यासां ता भावान्ताः क्रिया- देवदर्शनाद्याः सन्ति, एतावता क्रियासु भावस्यैव प्राधान्यमित्यर्थः, च पुनर्नाटकमन्ते यस्य तन्नाटकान्तमेव काव्यमस्ति, काव्येषु नाटकस्यैव प्राधान्यात्, तथा राधावेधोऽन्ते यस्य तद्राधावेधान्तं शस्त्रविज्ञानं, शस्त्रविज्ञानेषु तस्यैव प्राधान्यमित्यर्थः, ईकारः पादपूरणे ॥ ८८२ ॥
For Private and Personal Use Only