________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
एसा सहीमुहेणं जं, कहइ समस्सापयं मएणावि । पूरेयब्बं केणवि, पुत्तलयमुहेण हेलाए ॥ ८६१ ॥ इय चिंतिऊण पासट्ठियस्स थंभस्स पुत्तलयसीसे । कुमरेण करो दिन्नो, ता पुत्तलओ भणइ एवं ॥८६२॥ अरिहंताईनवपय, निअमणु धरइ जु कोइ । निच्छइ तसु नरसेहरह, मणुवंछिअ फल होइ ८६३ ॥ तओ विअक्खणा पढेइ- "अवर म झंखहु आल" ॥ तओ कुमरकरपवित्तो पुत्तलओ पूरेइअरिहंत देव सुसाधु गुरु, धम्म तु दयाविसाल । मंतुत्तम नवकार पर, अवर म. झंखहु आल ॥ ८६४ ॥
एतत् समस्यापदं सखीमुखात् श्रुत्वा कुमारश्चिन्तयति- एषा राजकन्या यत्सखीमुखेन पदं कथयति तन्मयापि केनापि पुत्रकमुखेन हेलया-लीलया समस्यापदं पूरयितव्यम् ॥ ८६१॥ इति चिन्तयित्वा कुमारेण पार्श्वस्थितस्य स्तम्भस्य पुत्रकशीर्षेपुत्रकमस्तके करो-हस्तो दत्तः, ततः पुत्रक एवं भणति ॥ ८६२ ॥ अहंदादीनि नव पदानि निजमनसि यः कोऽपि धरति तस्य नरशेखरस्य निश्चयेन मनोवाञ्छितं फलं भवति ॥ ८६३ ॥ ततो विचक्षणानाम्नी द्वितीया सखी पठति, इदं द्वितीयं समस्यापदम्, ततः कुमारस्य करेण पवित्रः-पवित्रीभूतः पुत्रकः पूरयति, तथाहि- अर्हन् देवः सुसाधुः गुरुः धर्मस्तु दययाअनुकम्पया विशालो-विस्तीर्णः मन्त्रेषु उत्तमो-मुख्यो नमस्काराख्यो मन्त्रः एते एव देवगुरुधर्ममन्त्रेषु पराः-श्रेष्ठाः सन्ति, अत एतानेव भजतेति शेषः, अपरं सर्वमपि आलम्-अनर्थकं वस्तु मा 'झंखहु त्ति अङ्गीकुरुत ॥ ८६४ ॥
For Private and Personal Use Only