________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsun Gyanmandir
************************-*-*-*-*
पत्तो अ तक्खणं चिय, सहावरूवेण मंडवे तत्थ । जत्थत्थि रायपुत्ती, संजुत्ता पंचहिं सहीहिं ॥ ८५७ ॥ दळूण तं कुमारं, मारोवमरूवमसमलायणं । नरवरधूयावि खणं विम्हिअचित्ता विचिंतेइ ॥ ८५८ ॥ जइ कहविहु एस मणोगयाउ पूरेइ मह समस्साओ । ताऽहं तिन्नपइन्ना, हवेमि धन्ना सुकयपुन्ना ॥८५९॥ पुच्छइ तओ कुमारो, कहह समस्सापयाई निययाई । तो कुमरिसंनिया पंडियावि पढमं पयं पढइ ॥८६०॥ 'मणुवंछिय फल होइ'
अथ कुमारस्तत्क्षणमेव स्वभावरूपेण तत्र-तस्मिन्मण्डपे प्राप्तः यत्र पञ्चभिः सखीभिः संयुक्ता-सहिता राजपुत्री अस्ति ॥ ८५७ ॥ मारेण-कामेन उपमा यस्य तन्मारोपमं, मारोपमं रूपं यस्य तम्, अत एव असमम्-अतुलं लावण्यं यस्य स तं, तथाभूतं तं कुमारं दृष्ट्वा नरवरस्य-राज्ञः पुत्री अपि क्षणं यावत् विस्मितं-विस्मययुक्तं चित्तं यस्याः सा एवम्भूता सती विचिन्तयति ॥८५८॥ किं चिन्तयतीत्याह-हु इति निश्चितम् एष पुमान् यदि कथमपि मम मनोगताः समस्याः पूरयति तत्-तर्हि अहं तीर्णा-पारं प्रापिता प्रतिज्ञा यया सा एवम्भूता सती धन्या पुनः सुकृतपुण्या भवामि, सुष्ठु कृतं पुण्यं यया सेति विग्रहः॥८५९ ॥ ततः कुमारः पृच्छति, यूयं निजकानि-स्वकीयानि समस्यापदानि कथयत, ततः-तदनन्तरं कुमार्या संज्ञिता सखी अपि प्रथमम्-एकं समस्यापदं पठति-कथयति ॥ ८६० ॥ किं तदित्याह-'मणु' इत्यादि, प्रथमं समस्यापदमिदम् ।
For Private and Personal Use Only