________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
sho
हा
१९२
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोऊण तं पसिद्धिं समागयाऽणेगपंडिया पुरिसा । पूरंति समस्साओ, परं न तीए मणगयाओ ॥८५२ ॥ एवं सा निवधूया, सुपंडियाईहिं पंचहिं सहीहिं । सहिया चित्तपरिक्खं, कुणमाणा वट्टइ जणाणं ॥८५३॥ तं सोऊणं सव्वो, सहाजणो भणइ केरिसं चुज्जं । पूरिज्जति समस्सा, किं केणवि परमणगयाओ ? ॥८५४॥ तं सोऊणं कुमारो, धणियं संजायमणचमक्कारो । पत्तो नियआवास, पुणो पभायंमि चिंतेइ ॥८५५॥ हारस्स पभावेणं, मह गमणं होउ पट्टणे तत्थ । जत्थऽत्थि रायकन्ना, विहियपइन्ना समस्साहिं ॥ ८५६॥
तां प्रसिद्धिं श्रुत्वाऽनेके पण्डिताः समागताः सन्तः समस्याः पूरयन्ति परं केवलं तस्याः कन्यायाः मनोगताः समस्याः न पूरयन्ति ॥८५२॥ एवममुना प्रकारेण सा नृपपुत्री सुष्ठु शोभनाभिः पण्डितादिभिः पञ्चभिः सखीभिः सहिता लोकानांजनानां चित्तपरीक्षां कुर्वाणा वर्त्तते ॥८५३॥ तद्वचनं श्रुत्वा सर्वोऽपि सभाजनः सभावर्त्तिलोको भणति, कीदृशं चोद्यम्आश्चर्यमस्ति ?, किं परस्य मनोगताः समस्याः केनापि पूर्यन्ते ॥८५४॥ तच्चरवचनं श्रुत्वा 'धणिय' न्ति अत्यर्थं सञ्जातो मनसि चमत्कारो यस्य स एवम्भूतः कुमारो निजकावासं प्राप्तः सन् पुनः प्रभाते चिन्तयति ॥ ८५५ ॥ किं चिन्तयतीत्याहहारस्य प्रभावेण तत्र - तस्मिन् देवदलाख्ये पत्तने मम गमनं भवतु यत्र नगरे समस्याभिर्विहिता- कृता प्रतिज्ञा यया सा ईदृशी राजकन्याऽस्ति ॥ ८५६ ॥
For Private and Personal Use Only
年