________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
22
********************
जेणं वरो वरिज्जइ, मणनिब्बुइकारणेण कन्नाहिं । सा पुण धम्मविरोहे, पइपत्तीणं कओ होइ ? ॥८४७॥ तम्हा अम्हेहिं परिक्खिऊण सम्म जिणिंदधम्ममि । जो होइ निच्चलमणो, सो चेव वरो वरेअब्बो ॥८४८॥ भणिशं च पंडिआए, सामिणि ! जुत्तं तए इमं वुत्तं । किंतु निरुत्तो भावो, परस्स नज्जइ कवित्तेणं ॥८४९॥ ता काऊण समस्सा-पयाइं सद्दिटिपूरणिज्जाई । अप्पेह जेहिं नज्जइ, सुहासुहो धम्मपरिणामो ॥८५०॥ तो तीए कुमरीए, अस्थि पइन्ना इमा कया जो उ । चित्तगयसमस्साओ, पुरिस्सइ सो वरेअब्बो ॥८५१॥
येन कारणेन कन्याभिः मनोनिर्वृतिकारणेन-मनःसुखनिमित्तं वरो-भर्ता ब्रियते सा- मनोनिवृतिः पुनः पतिपत्न्यो:भर्तृस्त्रियोद्धर्मविरोधे सति कुतो भवति ?, प्रायो न भवत्येवेत्यर्थः ॥८४७ ॥ तस्मात् अस्माभिः सम्यक् परीक्ष्य यः पुमान जिनेन्द्रधर्मे निश्चलं मनो यस्य स निश्चलमना भवति स एव वरो-भर्ता वरितव्यो-वरणीयः ॥८४८॥ तदा पण्डितया पण्डितानाम्न्या सख्या च भणितं-हे स्वामिनि! त्वया इदं युक्तमुक्तं किन्तु-परन्तु परस्य-अन्यपुरुषस्य निरुक्तः- अप्रकाशितो भावः- अभिप्रायः कवित्वेन ज्ञायते, यादृशं मनसि भवेत् तादृशं कवित्वे प्रादुर्भवतीत्यर्थः ॥८४९॥ तस्मात्सदृष्टिःसम्यग्दृष्टिस्तेन पूरणीयानि-पूरयितुं शक्यानि समस्यापदानि कृत्वा अर्पयत-दत्त यैः पूरितैः शुभोऽशुभो वा धर्मपरिणामो ज्ञायते ॥८५०॥ ततः-तदनन्तरं तया कुमार्या इयं प्रतिज्ञा कृताऽस्ति, यस्तु चित्तगता-मनोगताः समस्याः पूरयिष्यते स पुमानस्माभिर्वरितव्यः ॥८५१॥
**********************
**
For Private and Personal Use Only