________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtn.org
Acharya Shri Kailassagarsun Gyanmandie
तस्सुत्तमरायाणां, पुत्तीओ राणियाउ चुलसीई । ताण मझंमि पढमा, गुणमाला अस्थि सविवेया ॥८४२॥ तीए य पंच पुत्ता, हिरण्णगब्भो य नेहलो जोहो । विजियारी अ सुकन्नो, ताणुवरिं पुत्तिया चेगा ॥८४३॥ सा नामेणं सिंगारसुंदर सिंगारिणी तिलुक्कस्स ॥ रूवकलागुणपुन्ना, तारुण्णालंकिअसरीरा ॥८४४॥ तीए जिणधम्मरयाइ पंडिआ तह विअक्खणा पउणा । निउणा दक्खत्ति सहीण पंचगं अस्थि जिणभत्तं ॥८४५॥ ताणं पुरो कुमारी, भणेइ अम्हाण जिणमयरयाणं । जइ कोइ होइ जिणमयविऊ वरो तो वरं होइ ॥८४६॥
तस्य राज्ञ उत्तमराजानां पुत्र्यश्चतुरशीती राज्यः सन्ति, तासां मध्ये प्रथमा गुणमाला नाम राज्ञी अस्ति, कीदृशी ? सविवेका-विवेकसहिता ॥८४२॥ तस्याश्च राज्याः पञ्च पुत्राः, सन्ति, तानेव नामत आह-हिरण्यगर्भः१ स्नेहलः २ योधः ३ च - पुनः विजितारिः ४ सुकर्णः ५ एते पञ्च पुत्राः च - पुनस्तेषां पुत्राणामुपरि एका पुत्रिका अस्ति ॥८४३॥ सा कन्या नाम्ना शृङ्गारसुन्दरी अस्ति, कीदृशी ?-त्रैलोक्यस्य शृङ्गारिणी - शृङ्गारकारिणी-शोभाकारिकेत्यर्थः, पुनः रूपकलागुणैः पूर्णाभृता तथा तारुण्येन अलङ्कृतं-विभूषितं शरीरं यस्याः सा ॥८४४॥ जिनधर्मे रताया-रक्तायास्तस्याः कन्यायाः सखीनां पञ्चकमस्ति, तदेव नामत आह-प्रथमा पण्डिता तथा द्वितीया विचक्षणा २ तृतीया प्रगुणा ३ चतुर्थी निपुणा ४ पञ्चमी दक्षा५ इति, कीदृशं सखीपञ्चकं ? -जिनस्य-अर्हतो भक्तम् ॥८४५॥ कुमारी तासां सखीनां पुरः-अग्रे भणति, जिनमते - जिनशासने रतानां-रक्तानामस्माकं यदि कोऽपि जिनमतवित्-जिनमतज्ञः पुमान् वरो-भर्ता भवेत् तत्-तर्हि वरं-शोभनं भवति ॥८४६॥
For Private and Personal Use Only