________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
***
*
**
*
*
***
खुज्जेण तेण तह कहवि दंसिओ विक्कमो रणे तत्थ । जह रंजिअचित्तेहिं, सुरेहिं मुक्का कुसुमवुढी ॥८३७॥ तं दठूणं सिरिवज्जसेणरायावि रंजिओ भणइ । जह पयडियं बलं तह, रूवं पयडेसु वच्छ ! नियं ॥८३८॥ तक्कालं च कुमार, सहावरूवं पलोइऊण निवो । परिणाविअ नियधूयं, साणंदो देइ आवासं ॥८३९॥ तत्थ ठिओ सिरिपालो, कुमरो तियलुक्कसुंदरीसहिओ। पावइ परमाणंद, जीवो जह भावणासहिओ ॥८४०॥ अन्नदिणे कोइ चरो, रायसहाए समागओ भणइ । देवदलपट्टणंमी, अत्थि नरिंदो धरापालो ॥ ८४१॥
तेन कुब्जेन तत्र रणे-सङ्ग्रामे तथा-तेन प्रकारेण कथमपि विक्रमः पराक्रमो दर्शितो, यथा रजितचित्तैःप्रसन्नीभूतमानसैः सुरैः-देवैः कुसुमानां- पुष्पाणां वृष्टिर्मुक्ता कृतेत्यर्थः ॥८३७॥ तं-कुब्नपराक्रमं दृष्ट्वा श्री वज्रसेनराजापि रजितः सन् भणति, किंभणतीत्याह-हे वत्स! यथा त्वया स्वकीयं बलं प्रकटितं-प्रकटीकृतं तथा निजं रूपं प्रकटय-प्रकटीकुरु ॥८३८॥ च - पुनः नृपो-राजा तत्कालं स्वभावरूपं-स्वमूलरूपयुक्तं कुमारं प्रलोक्य निजपुत्रीं परिणाय्य सानन्दः- सहर्षः सन् निवासार्थमावासं-प्रासादं ददाति ॥८३९॥ तत्र आवासे स्थितस्त्रैलोक्यसुन्दर्या सहितः श्रीपालः कुमारः परमम्-उत्कृष्टमानन्दं प्राप्नोति, कया सहितः क इव ?-भावनया-सदध्यवसायपरिणत्या सहितोजीवो यथा, यथाशब्द इवार्थे, यथा सद्भावनासहितो जीवः परमानन्दं प्राप्नोति ॥८४०॥ अन्यस्मिन् दिने कोऽपि चरो-हेरिको राजसभायां समागतो भणति- देवदलनाम्नि पत्तने धरापालो नाम नरेन्द्रो-राजाऽस्ति ॥८४१॥
*
*
*
*
**
**
*
*
For Private and Personal Use Only