________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**************************
जइ किरि मुद्धा एसा, न मुणेइ गुणागुणंपि पुरिसाणं । तहवि हु एरिसकन्नारयणं खुज्जस्स न सहामो ॥८३२॥ ता झत्ति चयसु मालं, नो वा अम्हं करालकरवालो। एसो तुह गलनालं, लुणिही नूणं सवरमालं ॥८३३ हसिऊण भणइ खुज्जो, जइ किरितुब्भेइमीइ नो वरीया ॥दोहग्गदडदेहा, कीस न रूसेह ता विहिणो?॥८३४॥ इण्हि पुण तुम्हाणं, परिस्थिअहिलासविहिअपावाणं । सोहणखमं इमं मे, असिधारा तित्थमेवऽस्थि ॥८३५॥ इअ भणिऊणं तेसिं, खुज्जेणं दंसिया तहा हत्था । जह ते भीइविहत्था, सब्वेवि दिसोदिसं नट्ठा ॥८३६॥
यदि किल एषा मुग्धा-भद्रकस्वभावा पुरुषाणां गुणाश्च अगुणाश्च एषां समाहारो गुणागुणमपि न मुणति-न जानाति तथापि ईदृशं कन्यारत्नं कुब्नस्य न सहामहे ॥८३२॥ तत्-तस्मात्कारणात् झटिति-शीघ्रं मालां त्यज, यदि पुनर्न त्यक्ष्यसि तर्हि अस्माकमेष करालो-विकरालः करवालः-तरवारिः सवरमालं-वरमालया सहितं तव गलनालं लविष्यति- छेत्स्यति ॥८३३॥ ततः कुब्जो हसित्वा भणति- यदि किल अनया कन्यया यूयं न वृताः, कीदृशा यूयं ? -दौर्भाग्येण दग्धो देहः-शरीरं येषां ते ईदृशाः तत्-तर्हि विधेः-भाग्यस्य कथं न रुष्यथ ? येन यूयं दौर्भाग्यदूषिताः कृता इति भावः॥८३४॥ इदानीं-साम्प्रतं पुनः परस्त्रिया योऽभिलाषो-वाञ्छा तेन विहितं-कृतं पापं यैस्ते तादृशानां युष्माकं शोधनक्षम-शुद्धिकरणसमर्थमिदं मे-मम असिधारा-खड्गधारा तद्रूपं तीर्थमेवास्ति ॥८३५॥ इति भणित्वा कुब्जेन तेभ्यो-नृपेभ्यस्तथा हस्तौ दर्शितौ यथा ते राजानः सर्वेऽपि भीत्या-भयेन विहस्ता-व्याकुलाः सन्तो दिशोदिशं नष्टाः ॥८३६॥
१८८
For Private and Personal Use Only