________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*************************
जा पडिहारी थक्का, सयलं निवमंडलंपि वन्नित्ता ॥ ताव कुमारी सपिअं, खुज्जं पासेइ सविलक्खा ॥ ८२७॥ इत्थंतरंमि थंभट्ठिआइ वरपुत्तलीइ वयणमि । होऊण हारहिट्ठायगदेवो एरिसं भणइ ॥८२८॥ यदि धन्याऽसि विज्ञासि, जानासि च गुणान्तरम् । तदैनं कुब्जकाकारं वृणु वत्से ! नरोत्तमम् ॥८२९॥ तं सोऊण कुमारी, वरेइ तं झत्ति कुज्जरूवंपि । कुमरो पुण सविसेसं, दंसेइ कुरूवमप्पाणं ॥८३०॥ इत्थंतरंमि सब्बे, रायाणो अक्खिवंति तं खुज्जं ॥ रे रे मुंचसु एयं, वरमालं अप्पणो कालं ॥८३१॥
यावत् प्रतीहारी सकलं-समस्तमपि नृपमण्डलं-राजसमूहं वर्णयित्वा थक्कं त्ति मौनमाधाय स्थिता तावत्कुमारी स्वप्रियं कुब्जं पश्यति, कीदृशी सती?-सह वैलक्ष्येण वर्तते इति सविलक्ष्या विलक्षवदना सतीत्यर्थः॥८२७॥ अत्रान्तरे-अस्मिन्नवसरे स्तम्भस्थिताया-वरपुत्रिकाया वदने-मुखे भूत्वा प्रविश्येत्यर्थः हारस्याधिष्ठायकदेव ईदृशं भणति ॥८२८॥ किंभणतीत्याहहे वत्से ! हे पुत्रि ? यदि त्वं धन्यासि,पुनर्विशेषेण जानासि-विज्ञाऽसि, च -पुनर्गुणानामन्तरं-भेदं जानासि, तदा एनं कुब्जकाकारं नरोत्तम-पुरुषोत्तमं वृणु-अङ्गीकुरु ॥८२९॥ तत् श्रुत्वा कुमारी झटिति-शीघ्रं कुब्जरूपमपि तं कुमारं वृणोति, कुमारः पुनः आत्मानं सविशेषं कुरूपं दर्शयति, लोकेभ्य इति शेषः॥८३०॥ अत्रान्तरे सर्वे राजानस्तं कुब्जम् आक्षिपन्तिआक्रोशन्ति, कथमित्याह-रे रे कुब्न! एतां वरमालां मुञ्च-त्यज,कीदृशीं वरमालाम् ?-आत्मनः कालं कालरूपाम् ॥८३१॥
For Private and Personal Use Only