________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***********
****************************
धन्ना कयपुन्नाऽहं, महंतभागोदओवि मह अस्थि । मह मणजलनिहिचंदो, जं एस समागओ कोवि ॥८२३॥ कुमरोवि तीइ दिढेि, ठूणं साणुरागसकडक्खं । दंसेइ खुज्जयंपि हु, अण्णाणं अंतरंतरियं ॥८२४॥. इत्तोवि हु पडिहारी, जं जं वन्नेइ नरवरं तं तं । विक्खोडेइ कुमारी, रूववओदेसदोसेहिं ॥८२५॥ जो जइआ वन्निज्जइ, सो तइआ होइ सरयससिवयणो । जो जइआ हीलिज्जइ, सो तइआ होइ साममुहो ॥८२६
अहं धन्याऽस्मि, पुनः कृतं पुण्यं यया सा कृतपुण्याऽस्मि, मम भाग्योदयोऽपि महानस्ति, कुत इत्याह- यद्यस्मात्कारणात् मम मन एव जलनिधिः-समुद्रस्तत्समुल्लासने चन्द्र इव चन्द्रतुल्यः एष कोऽपि पुरुषः समागतोऽस्ति ॥८२३॥ कुमारोऽपि तस्या दृष्टिं सानुरागाम् - अनुरागयुक्तां पुनः सकटाक्षा-कटाक्षयुक्तां दृष्ट्वा आत्मानमन्तरान्तरितं कुब्जकमपि दर्शयति,अन्तः अन्तः इतं- प्राप्तम् अन्तरन्तरितं मध्ये मध्ये इत्यर्थः ॥८२४॥ इतोऽपि च प्रतीहारी-वेत्रधरणी यं यं नरवरंराजानं वर्णयति तं तं राजानं कुमारी रूपवयोदेशदोषैर्विखोडति-दूषयति, अस्य राज्ञो रूपमसम्यक्, अस्य वयो न सम्यक्, अस्य देशो न रम्य इत्यादिवाक्यैरित्यर्थः ॥८२५॥ यदा यो राजा वर्ण्यते तदा स राजा शरच्छशिवदनो भवति,शरच्छशीशरदृतुचन्द्रः स इव वदनं-मुखं यस्य स तथोक्तः, यदा यो राजा कुमार्या हील्यते तदा स राजा श्याममुखो भवति, श्याम मुखं यस्य सः ॥८२६॥
*****************
For Private and Personal Use Only