________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
*
*
**
***
*
*
*
************************
हडहड हसंति सब्बे, अहो इमो एरिसो सरूवोवि । जइ न वरिस्सइ नरवरधूया तो सा कहं होही ?॥८१९॥ इत्थंतरंमि नरवरधूया नरवरविमाणमारूढा । खीरोदगवरवत्था, मुत्ताहलनिम्मलाहरणा ॥८२०॥ करकलिअविमलमाला, समागया मूलमंडवे जाव । ता सहसच्चिअ कुमरं, सहावरूवं पलोएइ ॥८२१॥ तं दठूण पमुइय-चित्ता चिंतेइ सा निवइधूया । रे मण! आणंदेणं, वट्टसु एयस्स लंभेणं ॥८२२॥ एतत् कुब्जवचनं श्रुत्वा सर्वे नृपकुमारादयो हडहड इति हसन्ति, पुनरेवं वदन्ति- अहो इममीदृशं सरूपं-रूपवन्तमपि यदि नरवरस्य-राज्ञः पुत्री न वरिष्यति तत्-तर्हि सा कन्या कथं-केन प्रकारेण भविष्यति ॥८१९॥ अत्रान्तरे-अस्मिन्नवसरे क्षीरोदकवरवस्त्रा-परिहितोज्ज्वलतरप्रधानवस्त्रा पुनर्मुक्ताफलानां निर्मलानि आभरणानि-हाराद्याभूषणानि यस्याः सा ईदृशा नरवरपुत्री वरं-प्रधानं यन्नरविमान-शिबिकादिलक्षणं तत् आरूढा सती ॥ ८२०॥ पुनः करे-हस्ते कलिता-प्राप्ता विमला-निर्मला माला यस्याः सा एवम्भूता च सती यावन्मूलमण्डपे समागता तावत् सहसा एव-सद्य एव कुमारं स्वभावरूपंस्वमूलरूपयुक्तं प्रलोकयति-पश्यति ॥८२१॥ अथ सा नृपते-राज्ञः पुत्री तं-स्वभावरूपं श्रीपालकुमारं दृष्ट्वा प्रमुदितं-हर्षितं चित्तं यस्याः सा एवम्भूता सती चिन्तयति-विमृशति, किं चिन्तयतीत्याह-रे मनस्त्वं एतस्य-वरस्य लाभेन आनन्देन वर्तस्व ॥८२२॥
**
*
*
*
*
***
**
For Private and Personal Use Only