SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuni Gyanmandir ******************** आसाढपढमपक्खे, बीयाए अत्थि तत्थ सुमुहुत्तो । कल्ले सा पुण बीआ, मग्गो पुण जोअणे तीसं ॥ ८१०॥ तं सोऊणं कुमरेण तस्स पहिअस्स दावि झत्ति । निअतुरयकंठकंदलभूसणसोवन्नसंकलयं ॥८११॥ कुमरो अनिआवासं, पत्तो चिंतेइ पच्छिमनिसाए । काऊण खुज्जरूवं, तंपि हु गंतूण पिच्छामि ॥८१२॥ हारस्स पभावेणं, संपत्तो तत्थ खुज्जरूवेणं । पिच्छेइ रायचकं, उवविटुं उच्चमंचेसु ॥८१३॥ कुमरोवि खुज्जरूवो, सयंवरामंडवंमि पविसंतो । पडिहारेण निसिद्धो, देइ तओ तस्स करकडयं ॥८१४॥ आषाढमासस्य प्रथमपक्षे द्वितीयायां तिथौ तत्र-तस्मिन्नगरे विवाहस्य सुमुहूत्तोऽस्ति, सा द्वितीया पुनः कल्ये-प्रभातेऽस्ति। मार्गः पुनस्त्रिंशद्योजनानि अस्ति ॥८१०॥ तत्पथिकवचनं श्रुत्वा कुमारेण तस्मै पथिकाय झटिति-शीघ्र निजतुरगस्यस्वकीयाश्वस्य यः कण्ठकन्दलस्तस्य भूषणं-शोभाकारकं यत्सौवर्ण-स्वर्णमयं सङ्कलकंतद् दापितम्, कण्ठो-गलः कन्दल इवनवाकुर इवेति कण्ठकन्दलः॥८११॥कुमारश्च निजावासं-स्वमन्दिरं प्राप्तः सन् पश्चिमरात्रौ चिन्तयति, किमित्याह-कुब्जरूपं कृत्वा तत्र गत्वा हु इति निश्चितं तमपि स्वयंवरामण्डपं प्रेक्षे-पश्यामीत्यर्थः ॥८१२॥ ततः कुमारो हारस्य प्रभावेण तत्रपुरपार्श्ववर्तिस्वयंवरामण्डपे कुब्जरूपेण सम्प्राप्तः सन् उच्चमञ्चेषु उपविष्टम्-आसीनं राजचक्र-राज्ञां समूहं प्रेक्षते-पश्यति ॥८१३॥ कुमारोऽपि कुब्जरूपः स्वयंवरामण्डपे प्रविशन् प्रतीहारेण-द्वारपालेन निषिद्धो-निवारितस्ततः-तदनन्तरं तस्मैप्रतीहाराय करस्य कटकं-वलयं ददाति ॥८१४॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy