________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*****************************
ताण उवरिं च एगा, पुत्ती तियलु कसुंदरी अस्थि । तिअलोएवि न अन्ना, जीए पडिछंदए कन्ना ॥८०५॥ तीए अणुरूववरं, अलहंतेणं च तेण नरवइणा । पारद्घो अत्थि तहिं, सयंवरामंडवो देव ! ॥८०६॥ तत्थऽस्थि सुविच्छिन्नो, उत्तुंगो मूलमंडवो रम्मो । मणिकंचणथंभट्ठिअ- पुत्तलियाखोहिअजणोहो ॥८०७॥ तत्तो चउपासेसुं, रइआ कोऊहलेहिं परिकलिआ। मंचाइमंचसेणी सग्गविमाणावलिसरिच्छा ॥८०८॥ जे संति निमंतिअनरवराण पडिवत्तिगउरवनिमित्तं । तत्थ कणतिणसमूहा, ते गरुया गिरिवरेहिंतो ॥८०९॥
तेषां पुत्राणामुपरि च एका त्रैलोक्यसुन्दरी नाम पुत्री अस्ति, यस्याः कन्यायाः प्रतिच्छन्दके प्रतिबिम्बे यत्सदृशीत्यर्थः अन्या कन्या त्रैलोक्येऽपि नास्ति॥८०५॥ तस्या कन्याया अनुरूपं-योग्यं वरमलभमानेन-अप्राप्नुवता च तेन नरपतिना-राज्ञा हे देव- हे राजन् ! तत्र नगरे स्वयंवरामण्डपः प्रारब्धोऽस्ति ॥८०६॥ तत्र-स्वयंवरामण्डपे सुतराम- अतिशयेन विस्तीर्ण उत्तुङ्ग-उच्चस्तरो रम्यो-रमणीयो मूलमण्डपोऽस्ति, पुनः कीदृशः ? मणिकाञ्चनस्तम्भेषु-रत्नस्वर्णमयस्तम्भेषु स्थिता याः पुत्रिका शालभञ्जिकास्ताभिः क्षोभितः-क्षोभंप्रापितो जनौघो- जनसमूहो यत्र समणि ॥८०७॥ ततो मण्डपाच्चतुषु पार्थेषु रचिताः कुतूहलैः-कौतुकै परिकलिता-समन्तात् युक्ता मञ्चातिमञ्चश्रेणी अस्ति, पुनः कीदृशी? स्वर्गे-देवलोके या विमानानामावलिः-श्रेणिस्तत्सदृशा,तत्सदृशीत्यर्थः ॥८०८॥ तत्र प्रदेशे निमन्त्रितनरवराणाम्- आकारितभूपतीनां प्रतिपत्तिगौरवनिमित्तं-भक्ताद्यर्थं ये कणानाम् अन्नानां तृणानां-घासानां समूहाः-पुजाः सन्ति ते गिरिवरेभ्यो-महापर्वतेभ्योऽपि गुरुका-महान्तः सन्ति ॥८०९॥
For Private and Personal Use Only