________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
********************
अन्नदिणे नयराओ, रयवाडीए गएण कुमरेण । दिट्ठो एगो पहिओ, विसेसवत्तं च सो पुट्ठो ॥८००॥ सो भणइ देव ! कुंडिणपुराउ पट्ठावणीइ पट्टविओ । नयरंमि पइट्ठाणे, इब्भेण धणावहेणाहं ॥८०१॥ आगच्छंतेण मए, कंचणपुरनामयंमि नयरंमि । जं अच्छरिअं दिटुं, पुरिसुत्तम ! तं निसामेह ॥८०२॥ तत्थाथि कंचणपुरे, राया सिरिवज्जसेणनामुत्ति । तस्सऽस्थि पट्टदेवी, कंचणमालत्ति विक्खाया ॥८०३॥ तीए कुक्खिसमुब्भवा, पुत्ता चत्तारि संति सोंडीरा । जसधवल -जसोहर-वयरसिंह-गंधवनामाणो ॥८०४॥
अन्यस्मिन् दिने नगरात् राजवाटिकायां गतेन कुमारेण एकः पथिकः- पान्थो दृष्टो-विलोकितः च-पुनः स पथिको विशेषवार्ता पृष्टः ॥८००॥ तदा स पथिको भणति, हे देव ! इभ्येन-महद्धिकन धनावहेन-धनावहनाम्ना श्रेष्ठिनाऽहं कुण्डिनपुरात् प्रतिष्ठाने नगरे-प्रतिष्ठानपुरे स्थापनिकया-दिवसनियमनेन प्रस्थापितोऽस्मि-मुक्तोऽस्मि ॥८०१॥ आगच्छता मया काञ्चनपुरनामके नगरे हे पुरुषोत्तम! यत् आश्चर्यं दृष्टं तत्त्वं निशामय-श्रुणु॥८०२॥तत्र काञ्चनपुरे नगरे श्रीवज्रसेन इति नाम्ना राजाऽस्ति, तस्य राज्ञः काञ्चनमाला इति नाम्ना विख्याता-प्रसिद्धा पट्टदेवी-पट्टराज्ञी अस्ति ॥८०३॥ तस्याः कुक्षौ समुद्भव-उत्पत्तिर्येषां ते ईदृशाः पुत्राश्चत्वारः सन्ति, कीदृशाः ? 'सोंडीर' त्ति शौण्डीर्यवन्तः पराक्रमवन्त इत्यर्थः, किंनामान इत्याह- यशोधवल- यशोधर- वज्रसिंह -गान्धर्वनामानः ॥८०४॥
For Private and Personal Use Only