________________
Shri Mahavir Jain Aradhana Kendra
www.kobanrtn.org
Acharya Shri Kailassagarsun Gyanmandie
***
***
*
तं च कुमारीइ कलं, सयलोवि जणो पसंसए जाव । ताव कुमारो वामणरूवधरो वज्जरइ एवं ॥७९०॥ अहो सुजाणो कुंडल-पुरलोओ केरिसो इमो सब्बो । तो संकिआ कुमारी, उवहसिउं मन्नए अपं ॥७९१॥ अप्पेइ नियं वीणं, तस्स कुमारस्स रायधूयावि । कुमरोवि सारिऊणं, तं च असुद्धं कहइ एवं ॥७९२॥ तंती सगभरूवा, गलगहियं तुंबयं च एयाए । दंडोऽवि अग्गिदड्डो, तेण असुद्धा मए कहिया ॥७९३॥ ते दंसिऊण सम्म, आसारेऊण वायए जाव । ताव पसुत्तुव्व जणो, सब्बोवि अचेयणो जाओ ॥७९४॥ यावच्च तां-कुमार्य्याः कलां सकलोऽपि लोकः प्रशंसति-श्लाघते तावद्वामनरूपधरः कुमारःश्रीपाल एवं-वक्ष्यमाणप्रकारेण 'वज्जरइ' इति ब्रूते ॥७९०॥ कथमित्याह- अहो इति अलीकप्रशंसायाम्, अयं सर्वोऽपि कुण्डलपुरलोकः कीदृशः सुज्ञानोऽस्ति?, अज्ञानवानिति भावः, तत- एतत्कुमारवचनश्रवणानन्तरं कुमारी शङ्किता सती आत्मानमुपहसितं मन्यते-कुमारेणारं उपहसितेति जानातीत्यर्थः ॥७९१॥ तदा राजकन्यापि तस्मै कुमाराय निजां-स्वकीयां वीणामर्पयति, कुमारोऽपि च तां वीणां सारयित्वा एवं-वक्ष्यमाणप्रकारेण अशुद्धां कथयति ॥७९२॥ कथमित्याह- एतस्या वीणायास्तन्त्री सगर्भ रूपं यस्याः सा सगर्भरूपा, स्फुटितेत्यर्थः,: अस्तीति शेषः, च-पुनस्तुम्बकं गले गृहीतं-लग्नमस्ति, एतस्या दण्डोऽपि अग्निना दग्धोऽस्ति, तेन कारणेन मया इयं वीणाऽशुद्धा कथिता ॥७९३॥ तान् तन्त्र्यादिदोषान् दर्शयित्वा सम्यक् आसार्य-सारयित्वा यावत्कुमारो वीणां वादयति तावत्प्रकर्षेण सुप्त इव सर्वोऽपि जनो-लोकोऽचेतनो जातः ॥७९४॥
*
*********
For Private and Personal Use Only