________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तं कयइच्छारूवं, कुमरी पासेइ निरुवमसरूवं । अन्ने वामणरूवं, पासंति निवाइणो सब्वे ॥७८५॥ चिंतइ मणे कुमारी, मज्ज पइन्ना इमेण जइ पुन्ना । ताऽहं पुन्नपइन्ना, अप्पं मन्नेमि कयपुन्नं ॥७८६॥ जइ पुण मज्झ पइन्ना, इमिणावि ण पूरिया अहन्नाए । ताहं विहिअपइन्ना, सवेरिणी चेव संजाया ॥७८७॥ उवझायाएसेणं, तेहिं कुमारेहिं दंसियं जाव । वीणाए कुसलतं, ताव कुमारीवि दंसेइ ॥७८८॥ तीए कुमरिकलाए, संकुडियं सयलरायकुमराणं । वीणाए कुसलत्तं, चंदकलाइब्ब कमलवणं ॥७८९॥ | कृतं इच्छया रूपं येन स कृतेच्छारूपस्तं तादृशं तं कुमारं कुमारी-नृपकन्या निरुपमम्-उपमारहितं स्वरूपं यस्य स तं तथोक्तं पश्यति, अन्ये नृपादयः सर्वेऽपि लोका वामनरूपं पश्यन्ति ॥७८५॥ तदा कुमारी मनसि चिन्तयति,यदि अनेन राजकुमारेण मम प्रतिज्ञा पूर्णा पूरिता तत्-तदाऽहमात्मानं कृतपुण्यं मन्ये-जानामि कृतं पुण्यं येन स तं,कीदृशी अहं ? पूर्णा प्रतिज्ञा यस्याः सा पूर्णप्रतिज्ञा ॥७८६॥ यदि पुनरनेन पुरुषेणापि अधन्याया-अपुण्यवत्या मम प्रतिज्ञा न पूरिता तत्-तर्हि विहिता-कृता प्रतिज्ञा यया सा ईदृशी अहं स्ववैरिणी एव साता ॥७८७॥ तत उपाध्यायस्यादेशेन-आज्ञया तैः कुमारैर्यावद्वीणायां-वीणावादने कुशलत्वंनिपुणत्वं दर्शितं तावत्कुमारी अपि दर्शयति, निजवीणावादनविज्ञानमिति शेषः॥७८८॥तया कुमार्याः कलया सकलराजकुमाराणां वीणावादने कुशलत्वं सङ्कुचितं-मुद्रितमित्यर्थः,कया किमिव ?-चन्द्रकलया कमलवनमिव, यथा तया तत्सङ्कुचति तथेत्यर्थः | ॥७८९॥
For Private and Personal Use Only