________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
-*-*-*-*-*-*-*-*
*
इत्तो य जोयणसए, कुंडलनयरं समत्थि विक्खायं । तत्थऽस्थि गुरुपयावो, राया सिरिमगरकेउत्ति ॥७६२॥ तस्स कपूरतिलया, देवी कपूरविमलसीलगुणा । तत्कुच्छिभवा सुंदर -पुरंदरक्खा दुवे पुत्ता ॥७६३॥ ताण उवरिं च एगा, पुत्ती गुणसुंदरित्ति नामेणं । जा रूवेणं रंभा, बंभी अ कलाकलावेणं ॥७६४॥ तीए कया पइन्ना, जो मं वीणाकलाइ निज्जिणइ । सो चेव मज्झ भत्ता, अन्नेहिं न किंपि मह कज्जं ॥७६५॥ तं सोऊणं पत्ता, तत्थ नरिंदाण नंदणाणेगे। वीणाए अब्भासं, कुणमाणा संति पइदिवसं ॥७६६॥
इतश्च-अस्मान्नगरात् योजनशते विख्यातं-प्रसिद्धं कुण्डलपुरनामकं नगरं समस्ति, तत्र गुरुः-महान् प्रतापो यस्य स गुरुप्रतापः श्रीमकरकेतुरिति नाम्ना राजाऽस्ति ॥७६२॥ तस्य राज्ञः कर्पूरतिलकानाम देवी-राज्ञी अस्ति, कीदृशी ? कर्पूरवद्विमलो निर्मलः शीलगुणो यस्या सा कर्पूर०, तस्याः कुक्षौ भव-उत्पत्तिर्ययोस्तौ तत्कुक्षिभवौ सुन्दरपुरन्दराख्यौसुन्दरपुरन्दरनामानौ द्वौ पुत्रौ स्तः ॥७६३ ॥ तयोः पुत्रयोरुपरि च एका गुणसुन्दरीति नाम्ना पुत्री अस्ति, या पुत्री रूपेणलावण्येन सौन्दर्येणेत्यर्थः रम्भा-रम्भादेवाङ्गनातुल्या वर्तते, च - पुनः कलाकलापेन- कलानां समूहेन ब्राह्मी-सरस्वती तुल्याऽस्ति ॥७६४॥ तया प्रतिज्ञा कृताऽस्ति, कीदृशीत्याह- यः पुमान् वीणाकलया-वीणावादनचातुर्येण मां निर्जयतिनिःशेषेण जयति स एव मम भर्ता, अन्यैः पुरुषैर्मम किमपि कार्य-प्रयोजनं नास्ति ॥७६५॥ तत् श्रुत्वा तन्नगरे अनेके- बहवो नरेन्द्राणां-राज्ञां नन्दनाः-पुत्राः प्राप्ताः, प्रतिदिवसं-प्रत्यहं वीणाया अभ्यासं कुर्वाणाः सन्ति ॥७६६॥
*-
**-*-*-*-*-*-
१७
For Private and Personal Use Only