SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 최 자 자 मासे मासे तेसिं, होइ परिक्खा परं न केणावि । सा वीणाए जिप्पइ, पच्चक्खसरस्सईतुल्ला ॥७६७॥ एगपरिक्खादिवसे, दिट्ठा सा तत्थ देव ! अम्हेहिं । रमणीण सिरोरयणं, सा पुरिसाणं तुमं देव !॥७६८॥ अघडंतोवि हु जइ कहवि होइ दुण्डंपि तुम्ह संयोगो । ता देव ! पयावइणो, एस पयासो हवइ सहलो ॥७६९॥ तं सोऊणं कुमरो, सत्थाहिवई पसत्थवत्थेहिं । पहिराविऊण संझासमये पत्तो नियावासं ॥७७०॥ चिंतेइ तओ कुमरो, कह पिक्खिस्सं कुऊहलं एयं ? । अहवा नवपयझाणं, इत्थ पमाणं किमन्नेणं? ॥७७१॥ ___ मासे मासे तेषां राजकुमाराणां परीक्षा भवति परं केनापि राजपुत्रेण सा कन्या वीणायां न जीयते, कीदृशी सा ? प्रत्यक्षेण-साक्षात्सरस्वत्या तुल्या-सदृशी ॥७६७॥ एकस्मिन् परीक्षादिवसे तत्र सा राजपुत्री हे देव-हे राजन् ! अस्माभिर्दृष्टा, परमस्माभिरेवं ज्ञायते- हे देव ! रमणीनां-स्त्रीणां सर्वासामपि शिरोरत्न-शिरोमणिः सा कन्याऽस्ति, पुरुषाणां सर्वेषामपि शिरोरत्नं त्वमसि ॥७६८॥ यद्यपि अघटमानोऽपि- असम्भवन्नपि भवतोईयोरपि संयोगः-सम्बन्धः कथमपि भवति तत्-तर्हि हे देव ! प्रजापतेः -विधातुः एष भवद्वयनिर्माणरूपः प्रयासः सफलो भवति ॥७६९॥ तत्पूर्वोक्तं श्रुत्वा कुमारः सार्थाधिपतिं प्रशस्तवस्त्रैः परिधाप्य सन्ध्यासमये निजावासं-निजमन्दिरं प्राप्तः ॥७७०॥ ततः कुमारश्चिन्तयति- एतत्कुतूहलं-कौतुकं कथं प्रेक्षिष्ये-विलोकयिष्यामि ? अथवा अत्र-अस्मिन् कार्ये नवपदानाम्-अर्हदादीनां ध्यानं प्रमाणमस्ति, अन्येन विमर्शेन किं ?, न किञ्चिदित्यर्थः ॥७७१॥ 4 의 위 핵 For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy